________________ तत्त्वार्थसूत्रस्य ध्यानप्रकरणम् यदर्थव्यञ्जने कायवचसी च पृथक्त्वतः / मनः सङ्क्रमयत्यात्मा स विचारोऽभिधीयते // सङक्रान्तिरर्थावर्थ यद् व्यञ्जनाद् व्यञ्जनं तथा / योगाच्च योगमित्येष विचार इति वा मतः // अर्थावि च पृथक्त्वेन यद् वितर्कयतीव हि। ध्यानमुक्त समासेन तत् पृथक्त्वविचारवत् // अविकम्प्यमनस्त्वेन योगसङ्क्रान्तिनिःस्पृहम् / तकत्ववितर्काख्यं श्रुतज्ञानोपयोगवत् // सूक्ष्मकायक्रियो रुद्धसूक्ष्मवाङ्मनसक्रियः। यद् ध्यायति तदप्युक्त सूक्ष्ममप्रतिपाति च // कायिकी च यदेषाऽपि सूक्ष्मोपरमते क्रिया। अनिवति तवप्युक्त ध्यानं व्युपरतक्रियम् // SUTRA एकाश्रये सवितर्क पूर्वे / (IX.44) BHASYA एकद्रव्याश्रये सवितर्के पूर्वे ध्याने प्रथमद्वितीये / तत्र सविचारं प्रथमम्, अविचारं द्वितीयम्, अविचारं सवितकं द्वितीयं ध्यानं भवति / (44) ____TIKA एक आश्रय-आलम्बनं ययोस्ते एकाश्रये एकद्रव्याश्रये इति / पूर्वविदारम्ये मतिगर्भश्रुतप्रधानव्यापाराच्चैकाश्रयता। परमाणुद्रव्यमेकमालम्ब्यात्मादिद्रव्यं वा श्रुतानुसारेण निरुद्धचेतसः शुक्लध्यानमिति “वितर्कः श्रुतम्" (IX.45) इति वक्ष्यति / सह वितर्केण सवितर्क, पूर्वगतश्रुतानुसारीत्यर्थः / पूर्व च पूर्वं च पूर्वे ध्याने / एतदेव निश्चिनोतिप्रथमद्वितीये इति पृथक्त्ववितर्कमेकत्ववितकं च। तत्र तयोर्यत् प्रथमम्- आद्यं पृथक्त्ववितकं तत् सविचारम् / सह विचारेण सविचारं, सह सङक्रांत्येति यावत् / वक्ष्यति "विचरोऽर्थव्यञ्जनयोगसङ्क्रान्तिः" (IX.46) / कथं पुनरनुपात्तं सूत्रे सविचारमिति गम्यते / अविचारं द्वितीयमिति वचनादर्थलभ्यं प्रथमं सविचारमिति / अविचारं द्वितीयम् / अविद्यमानविचारमविचारम्, अर्थव्यञ्जनयोगसङ्क्रान्तिरहितमित्यर्थः / द्वितीयमिति सूत्रक्रमप्रामाण्यादेकत्ववितर्कमविचारं भवति ध्यानमिति / (44) BHASYA अत्राह-वितर्कविचारयोः कः प्रतिविशेष इति ? अत्रोच्यते TIKA अत्राहेत्यादि वितर्कविचारयोविशेषमजानानः स्वरूपमनवगच्छन् परः पृच्छति–कः प्रतिविशेष इति / प्रतिशब्दस्तत्त्वाख्यायां वर्तते / यथा शोभनश्चत्रः प्रति मातरमेवं प्रति