________________ चित्त-समाधि : जैन योग लेश्याक्रियानिरोधो योगनिरोधश्च गुणनिरोधेन / इत्युक्तो विज्ञेयो बन्धनिरोधश्च हि तथैव // त्रसबादरपर्याप्तादेयशुभगकीर्तिमनुजनामानि पञ्चेन्द्रियनामान्यतरवेद्यमुच्चस्तथा गोत्रं मनुजायुष्कं च स एकादशं वेदयति कर्मणां प्रकृतीः। वेदयति तु तीर्थंकरो द्वादश सहतीर्थकृत्त्वेन / स ततो देहत्रयमोक्षार्थमनिवति सर्वगतमुपयाति समुच्छिन्नक्रियमतमस्कं परं ध्यानं व्युपरतक्रियमनिवर्तीत्यर्थः / तद्धि तावन्निवर्तते यावन्न मुक्तः / (41) ___ अत्राह-उक्तमित्यादिसबन्धः / शुक्ले चाये द्वे पूर्व विद (IX.39,40) इत्युक्त परे द्वे केवलिन (IX.41) इति चाभिहितं / तत् कानि तानीति अजानानेन प्रश्ने कृते, अत्रोच्यत इत्याह SUTRA पृथक्त्वैकत्ववितर्कसूक्ष्म क्रियाप्रतिपातिव्युपरतक्रियानिवर्तीनि / (IX.42) BHASYA पृथक्त्ववितर्कम्, एकत्ववितर्कम् सूक्ष्मक्रियमप्रतिपाति, व्युपरतक्रियानिवर्तीति चतुर्विधं शुक्लध्यानम् / (42) TIKA पृथक्त्ववितर्कमित्यादिना भाष्येण नामग्राहं पठति चतुरोऽपि भेदान् / (42) एते चोक्तलक्षणा भेदाः / शुक्लध्यानमित्थं चतुर्विधमिति सस्वामिकमुक्तम् / तस्याधुना प्रोक्तस्वामिन एव विशेष्य कध्यन्ते SUTRA तत् त्र्येककाययोगायोगानाम् / (IX.43) BHASYA तदेव चतुविधं शुक्लध्यानं त्रियोगस्यान्यतमयोगस्य काययोगस्यायोगस्य च यथासङ्ख्यं भवति / तत्र त्रियोगानां पृथक्त्ववितर्कम्, एकान्यतमयोगानामेकत्ववितर्कम्, काययोगानां सूक्ष्मक्रियमप्रतिपाति, अयोगानां व्युपरतक्रियानिवर्तीति / (43) TIKA तदेतच्चतुर्विधं शुक्लध्यानं प्रथमद्वितीयोत्तमसंहननवतो भवति / तत्राद्यं पृथक्त्ववितर्क त्रियोगस्य भवति, मनो-वाक्-काययोगव्यापारवत इत्यर्थः / एकान्यतमयोगानामिति / अन्यतमैकयोगानामेकत्ववितर्कम् / एकोऽन्यतमः कायादीनां योगो यस्य ध्यायिनो व्याप्रियते, कदाचिन्मनोयोग , कदाचिद् वाग्योगः, कदाचित् काययोग इति / काययोगानामिति कायिकयोगभाजामेव सूक्ष्मक्रियमप्रतिपाति शुक्लध्यानमिति / निरुद्धयोगद्वयावस्थानां कायव्यापारवतां सूक्ष्मक्रियं भवति, न च प्रतिपतति / अयोगानामिति शैलेश्यवस्थानां ह्रस्वाक्षरपञ्चकोच्चारणसमकालानां मनो-वाक्-काययोगत्रयरहितानां व्युपरतक्रियमनिवति ध्यानं भवति / उक्तं च