________________ तत्त्वार्थसूत्रस्य ध्यानप्रकरणम् आयुष्कस्यापि विरल्लितस्य न हास्यते स्थितिः कस्मात् / इति चाचोद्यं चरमशरीरोऽनुपक्रमायुर्यत् कटुकवत् // दण्डकपाटकरुचकक्रिया जगत्पूरणं चतुःसमयम् / क्रमशो निवृत्तिरपि च तथैव प्रोक्ता चतुःसमया // विकसनसङ्कोचनधर्मत्वाज्जीवस्य तत् तथा सिद्धम् / यच्चाप्यनन्तवीर्य तस्य ज्ञानं च गततिमिरम् // शेषायाः शेषायाः समये संहत्य सङ्ख्येयान् / भागान् स्थितेरनन्तान् भागान् शुभानुभावस्य / स ततो योगनिरोधं करोति लेश्यानिरोधमपि काङ्क्षन् / समसमयस्थिति बन्धं योगनिमित्तं स हि रुरुत्सन् // समये समये कर्मादाने सति सन्ततेनं मोक्षः स्यात् / यद्यपि हि न मुच्यन्ते स्थितिक्षयात् पूर्वकर्माणि // नोकर्माणि हि वीर्य योगद्रव्येण भवति जीवस्य / तस्यावस्थाने ननु सिद्धः समयस्थितिबन्धः॥ बादरत्वात् पूर्व वाङ्मनसे बादरे स निरुणद्धि क्रमेणव / आलम्बनाय करणं हि तदिष्टं तत्र वीर्यवतः // सत्यप्यनन्तवीर्यत्वे बादरतनुमपि निरुणद्धि ततः / सूक्ष्मेण काययोगेन न निरुध्यते हि सूक्ष्मो योगः // सति बादरे योगे न हि धावन् वेपथु वारयति / नाशयति काययोगं स्थूलं सोऽपूर्वफडुकीकृत्य / शेषस्य काययोगस्य तथा कृतीश्च स करोति // सूक्ष्मेण काययोगेन ततो निरुणद्धि सूक्ष्मवाङ्मनसे / भवति ततोऽसौ सूक्ष्मक्रियस्तदाकृतिगतयोगः // तमपि स योगं सूक्ष्म निररुत्सन् सर्वपर्यायानुगतम् / ध्यानं सूक्ष्मक्रियमप्रतिपात्युपयाति वितमस्कम् // ध्याने दृढापिते परमात्मनि ननु निष्क्रियो भवति कायः / प्रायणापातनिमेषोन्मेषवियुक्तो मृतस्येव // ध्यानापितोपयोगस्यापि न वाङ्मनसक्रिये यस्मात् / अन्तर्वतित्वादुपरमतस्तेन तयोर्ध्यानेन निरोधनं नेष्टम् // सततं तेन ध्यानेन निरुद्ध सूक्ष्मकाययोगेऽपि / निष्क्रियदेशो भवति स्थितोऽपि देहे विगतलेश्यः॥ तुर्यध्याने योगाभावात् समयस्थितिनोऽपि न कर्मणो भवति बन्धः / ध्यानार्पणसंहारात् किञ्चिच्च स संहतावयवः / /