________________ चित्त-समाधि : जैन योग एवं पूर्वोक्तन क्रमेण क्षपयन् कर्मप्रकृतीरुपशान्तकषायस्थानप्राप्त उपशान्तकषायः क्षीणकषायश्च भवतीति / (38) उपशान्तक्षीणकषाययोश्चेत्युक्तमविशेषेण धर्मध्यानम् / तच्चैकादशाङ्गविदो द्रष्टव्यम् / एवमवस्थिते किं धर्ममेव ध्यानं तयोः ? नेत्युच्यते / किञ्चान्यदिति सम्बध्नाति / न केवलमेतयोर्धम्य, शुक्लं च ध्यानमुपशान्तक्षीणकषाययोर्भवति / किं चतुर्विधमपि पृथक्त्ववितकं सविचारमेकत्ववितर्कमविचारं सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियमनिवर्तीति ? / उच्यते, न खलु चतुष्प्रकारमपि तयोः शुक्लध्यानं भवति / किं तहिं ? SUTRA शुक्ले चाद्ये / (IX.39) BHASYA शुक्ले चाद्ये ध्याने पृथक्त्ववितककत्ववितर्के चोपशान्तक्षीणकषाययोर्भवतः / (39) TIKA आये च शुक्ले ध्याने उपशान्तक्षीणकषाययोर्भवतः / के पुनस्ते ? पृथक्त्वैकत्ववितर्के / स्वरूपतः कीद्दशे ? उच्यते पृथक् पुनः कश्चिद् भेदस्तद्भावः पृथक्त्वम्-अनेकत्वम्, तेन सहगतो वितर्कः / पृथक्त्वमेव वा वितर्कसहगतं वितर्कपुरोगं पृथक्त्ववितर्कम् / तच्च परमाणुजीवादावेकद्रव्य उत्पादव्ययध्रौव्यादिपर्यायानेकनयार्पितत्वम् / तत् पृथक्त्वेन पृथक्त्वेन तस्य चिन्तनं वितर्कसहचरितं सविचारं च यत् तत् पृथक्त्व-वितर्क सविचारम् / तच्च पृथक्त्वमर्थव्यञ्जनयोगानां वक्ष्यति - "येककाययोगायोगानां" "वितर्कः श्रुतं", "विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः" (IX. 43,45,47) / पूर्वगतभङ्गिकश्रुतानुसारेणार्थव्यञ्जनयोगान्तरप्राप्तिः-गमनं विचारः / अर्थाद् व्यञ्जनसङ्क्रान्तिः, व्यञ्जनादर्थसङक्रान्तिः, मनोयोगात् काययोगसङक्रान्तिर्वाग्योगसङक्रान्तिर्वा / एवं काययोगान्मनोयोगं वाग्योगं वा सङक्रामति / तथा वाग्योगान्मनोयोगं काययोगं वेति / यत्र सङक्रामति तत्रैव निरोधो ध्यानमिति / एकस्य भाव एकत्वम् / एकत्वगतो वितर्क एकत्ववितर्कः / एक एव योगस्त्रयाणामन्यतमस्तथाऽर्थो व्यञ्जनं चैकमेव पर्यायान्तरानर्पितमेकपर्यायचिन्तनम् / उत्पादव्ययधौव्यादिपर्यायाणामेकस्मिन् पर्याये निवातशरणप्रतिष्ठितप्रदीपवनिष्प्रकम्पं, पूर्वगतश्रुतानुसारि चेतो निर्विचारमर्थव्यञ्जनयोगान्तरेषु / तदेकत्व वितर्कमविचारम् / आह च क्षीणकषायस्थानं तत् प्राप्य ततो विशुद्धलेश्यः सन् / एकत्ववितर्कावीचारं ध्यानं ततोऽभ्येति // एकाधियमिष्टं योगेन च केनचित् तदेकेन / ध्यानं समाप्यते यत् कालोऽल्पोऽन्तर्मुहूर्तः सः॥