________________ 57 तत्त्वार्थसूत्रस्य ध्यानप्रकरणम् BHASYA उपशान्तकषायस्य क्षीणकषायस्य च धर्म ध्यानं भवति / (38) किञ्चान्यत् TIKA चशब्दः समुच्चये / कषायशब्द: प्रत्येकमभिसम्बध्यते / उपशान्ताः कषाया यस्यासावुपशान्तकषाय एकादशगुणस्थानवर्ती / क्षीणाः कषाया यस्य स क्षीणकषायः। भस्मच्छनाग्निवदुपशान्ता निरवशेषतः परिशटिताः, क्षीणा विध्मातहुताशनवत् / अनयोश्च उपशान्तक्षीणकषाययोरप्रमत्तसंयतस्य च ध्यानं धर्म भवति / तत्रोपशान्तक्षीणकषायस्वरूपनिर्ज्ञानायाधस्तनं गुणस्थानत्रयमवश्यंतया प्ररूपणीयम् / अन्यथा तदपरिज्ञानमेव स्यादिति / अप्रमत्तस्थानादसङ्ख्येयानि विशोधिस्थानान्यारुह्यापूर्वकरणं प्रविशति / समये समये स्थितिघात-रसघात-स्थितिबन्ध-गुणश्रेणि-गुणसङ्क्रमणकरणमपूर्व निर्गच्छतीत्यपूर्वकरणम् / अप्राप्तपूर्वकत्वाद् वा संसारे तदपूर्वकरणम् / न तत्र कस्याश्चिदपि कर्मप्रकृतेरुपशमः क्षयो वा / उपशमनाभिमुख्यात् तत्पुरस्कारादुपशमकः क्षपणाहत्वाच्च क्षपक इति / उक्त स ततः अपकणि प्रतिपद्य चरित्रघातिनीः शेषाः / क्षपयन् मोहप्रकृतीः प्रतिष्ठते शुद्धलेश्याकः // प्रविशत्यपूर्वकरणं प्रस्थित एवं ततोऽपरं स्थानम् / तवपूर्वकरणमिष्टं कदाचिवप्राप्तपूर्वत्वात् // ततोऽप्युत्तरोत्तरविशोधिस्थानप्राप्त्याऽनिवृत्तिस्थानं भवति / परस्परं नातिवर्तन्त इत्यनिवृत्तयः / परस्परतुल्यवृत्तय इत्यर्थः / सम्परायाः कषायास्तदुदयो बादरो येषां ते बादरसम्परायाः / अनिवृत्तयश्च ते बादरसम्परायाश्च त इत्यर्थः / ते उपशमकाः क्षपकाश्च / तत्र नपुंसकस्त्रीवेदषट्नोकषायादिक्रमान्मोहप्रकृतीरुपशमकः शमयति क्षण-दंस-नपुंसगइत्थिवेयछक्कं च पुरिसवेयं च / दो दो एगंतरिए सरिसे सरिसं उवसमेइ // -आवश्यकनिर्युक्तौ गा० 116 क्षपकोऽपि निद्रानिद्राद्युदयक्षयात् त्रयोदशनामकर्मक्षयाच्चाप्रत्याख्यानावरणादिकषायाष्टकनपुंसकस्त्रीवेदक्रमाच्च क्षपयति / उक्तं च अथ स क्षपयति निद्रानिद्रादित्रयमशेषतस्तत्र / नरकगमनानुपूर्वी नरकति चापि कात्न्येन // सूक्ष्मस्थावरसाधारणातपोद्योतनामकर्माणि / तिर्यग्गतिनाम तथा तिर्यग्गत्यानुपूर्वी च // चतुरेकवित्रीन्द्रियनामानि तथैव नाशमुपयान्ति / तिर्यग्गतियोग्यास्ताः प्रकृतय एकादश प्रोक्ताः //