________________ चित्त-समाधि : जैन योग अनादिनिधनसनिवेशभाजो व्योमप्रतिष्ठाः क्षितिवलयद्वीपसागरनरकविमानभवनादिसंस्थानानि च। तथाऽऽत्मानमुपयोगलक्षणमनादिनिधनमर्थान्तरभूतं शरीराद्, अरूपं कर्तारमुपभोक्तारं च स्वकृतकर्मणः शरीराकारं, मुक्तौ त्रिभागहीनाकारम् / ऊर्ध्वलोको द्वादशकल्पा असकलसकलनिशाकरमण्डलाकृतयो नव ग्रेवेयकाणि पञ्च महाविमानानि मुक्ताधिवासश्च / अधोलोकोऽपि भवनवासिदेवनारकाधिवसतिः / धर्मा-ऽधर्मावपि लोकाकारी गतिस्थितिहेतू / आकाशमवगाहलक्षणम् / पुद्गलद्रव्यं शरीरादिकार्यम् / इत्थं संस्थानस्वाभाव्यान्वेषणार्थं स्मृतिसमन्वाहारो धर्मध्यानमुच्यते / पदार्थस्वरूपपरिज्ञानं तत्त्वावबोधः / तत्त्वावबोधाच्च क्रियानुष्ठानम् / तदनुष्ठानान्मोक्षावाप्तिरिति / तदेतवप्रमत्तसंयतस्य भवति धर्मध्यानम् / प्रमत्तसंयतस्थानाद् विशुद्धयमानाध्यवसायोप्रमत्तस्थानमाप्नोति / यथोक्तम् निर्माता एव तथा विशोधयोऽसङ्ख्या लोकमात्रास्ताः / तरतमयुक्ता या अधितिष्ठन् यतिरप्रमत्तः स्यात् // अतो विशुद्धाद्धायां वर्तमानोऽप्रमत्तसंयतः / तस्य च भगवतो धर्मध्यानादितपोयोगैः कर्माणि क्षपयतो विशोधिस्थानान्तराण्यारोहत ऋद्धिविशेषाः प्रादुर्भवन्त्यणिमादयः / उक्तं हि अवगाहते च स श्रुतजलधि प्राप्नोति चावधिज्ञानम् / मानसपर्यायं वा विज्ञानं वा कोष्ठादिबुद्धि वा // चारणवैक्रियसवौषध्याचा वापि लब्धयस्तस्य / प्रादुर्भवन्ति गुणतो बलानि वा मानसादीनि // अत्र च श्रेणिप्राप्त्यभिमुखः प्रथमकषायान् दृष्टिमोहत्रयं चाविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम उपशमश्रेण्याभिमुख्यादुपशमयति, क्षपकश्रेण्याभिमुखः क्षपयति / यथोक्तम् क्षपयति तेन ध्यानेन ततोऽनन्तानुबन्धिनश्चतुरः / मिथ्यात्वं संमिश्र सम्यक्त्वं च क्रमेण ततः // भीयन्ते हि कषायाः प्रथमास्त्रिविधोऽपि दृष्टिमोहश्च / देशयतायतसम्यग्दृप्रमत्ताप्रमत्तेषु // पाणिग्राहारीस्तान् निहत्य विगतस्पृहो वितीर्णभयः / प्रीतिसुखमपक्षोभः प्राप्नोति समाधिमत्स्थानम् ॥इति॥ किञ्चान्यदित्यनेन स्वाम्यन्तरं सम्बध्नाति SUTRA उपशान्तक्षीणकषाययोश्च / (IX.38)