SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 54 चित्त-समाधि : जैन योग दित्वात् संस्कारः / अथवा 'षिञ् बन्धने' (पा० धा० 1477) / भोक्तारं विशेषेण विविधं वा सिन्वन्ति-बध्नन्तीति विषयाः-शब्दादयः / तत्साधनानि च चेतनाचेतनव्यामिश्रवस्तूनि विषयशब्दवाच्यानि / विषीदन्ति वा प्राणिनो येषु परिभुजानास्ते विषयाः / यथोक्तं (प्रशमरतौ श्लो० 107) यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः / किंपाकफलादनवद् भवन्ति पश्चादतिदुरन्ताः // विषयाणां च संरक्षणमुक्तं परिग्रहेष्वप्राप्तनष्टेषु काङ्क्षाशोको प्राप्तेषु रक्षणमुपभोगे चावितृप्तिः / इत्थं च विषयसंरक्षणाहितक्रौर्यस्य म्लेच्छमलिम्लुचाग्निक्षितिमृद्वाय्वादिभ्यः समुदितायुधस्यानायुधस्य वा रक्षत: तीवेण लोभकषायेणानुरक्तचेतसस्तद्गतप्रणिधानस्य तत्रैव स्मृतिसमन्वाहारमाचरतो विषयसंरक्षणानन्दं रौद्रं भवति ध्यानम् / ___ तच्चतदविरतदेशविरतस्वामिकम् / तौ च पूर्वोक्तलक्षणौ / तयोरेव च भवत्येतत्, न प्रमत्तसंयतादीनामिति / रौद्रध्यायिनस्तीव्रसंक्लिष्टा: कापोतनीलकृष्णलेश्यास्तिस्रः / तदनुगमाच्च नरकगतिमूलमेतत् / लिङ्गान्यस्योत्सन्नबह्वज्ञानामरणदोषाः / तत्र हिंसानन्दादीनां चतुर्णा प्रकाराणामन्यतमभेदेनानवरतमविश्रान्त्या प्रवर्तमानस्य बहुकृत्वः सञ्चितदोष उत्सन्नशब्दवाच्यः / यथोत्सन्नं कालान्तरमुपचितमिति / तथा हिंसानन्दादिषु चतुर्वपि प्रवर्तमानस्याभिनिविष्टान्तःकरणस्य बहुदोषता / अज्ञानदोषता तेष्वेव हिंसादिष्वधर्मकार्येष्वभ्युदयकार्यबुद्धिव्यपाश्रयस्य चैकतानविधानावलम्बितसंसारमोचकस्येव भवति / अथवा नानाप्रकारेषु हिंसानन्दाद्युपायेषु प्रवर्तमानस्य प्रचण्डक्रोधाविष्टस्य महामोहाभिभूतस्य तीव्रवधबन्धसंक्लिष्टाध्यवसायस्य नानाविधदोषता, पाठान्तरव्याख्यानं तृतीयविकल्पस्य / तुर्यदोषस्तु मरणावस्थायामपि हिंसानन्दादिकृतः स्वल्पोऽपि पश्चात्तापो यस्य नास्ति तस्यामरणान्तदोषतेति / (36) आर्तरौद्रे व्याख्याते / सम्प्रति धर्मध्यानव्याख्यावसरः। तच्च सभेदं सस्वामिकमाख्यायते SUTRA आज्ञा-ऽपाय-विपाक-संस्थानविचयाय धर्ममप्रमत्तसंयतस्य / (IX.37) BHASYA आज्ञाविचयायाऽपायविचयाय विपाकविचयाय संस्थानविचयाय च स्मृतिसमम्वाहारो धर्मध्यानम् / तदप्रमत्तसंयतस्य भवति / (37) किञ्चान्यत् TIKA आज्ञादीनां कृतद्वन्द्वानां विचयशब्देन सह षष्ठीसमासः / आज्ञादीनां विचयः
SR No.032865
Book TitleJaina Meditation Citta Samadhi Jaina Yoga
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherJain Vishva Bharati
Publication Year1986
Total Pages170
LanguageHindi, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy