________________ तत्वार्थसूत्रस्य ध्यानप्रकरणम् कर्माणि निर्जरयतः सूत्रानुसाराद् यतमानस्यापि मोहनीयकर्मानुभावात् सङ्क्लेशाद् वा विशोध्या वाऽन्तर्मुहूर्तात् परावर्तते / ततः सज्वलनकषायोदयाद्, इन्द्रियविकथाप्रमादाद, योगदुष्प्रणिधानात्, कुशलेष्वनादराच्च प्रमत्तसंयतो भवति / तस्मात् सङ्क्लेशाद्धायां वर्तमानः प्रमत्तसंयतः / एते च त्रयोऽप्यार्तध्यायिनो भवन्ति, आर्तध्यानस्वामिन इत्यर्थः / एतदातध्यानमविरतादीनामेव भवति, नाप्रमत्तसंयतादीनामित्यर्थः / तदेतदातं नातिसंक्लिष्टकापोतनीलकृष्णलेश्यानुयायि द्रष्टव्यमिति / (35) सम्प्रति रौद्रध्यानं सस्वामिकमभिधित्सुराह SUTRA हिंसा-ऽनृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः। (IX.36) BHASYA हिंसार्थमनृतवचनार्थ स्तेयार्थ विषयसंस्क्षणार्थ च स्मृतिसमन्वाहारो रौद्रध्यानं, तदविरतदेशविरतयोरेव भवति / (36) ____TIKA हिंसाऽनतं स्तेयं विषयसंरक्षणं चेति द्वन्द्वः / ततो द्वन्द्वसमासः / साभिनिर्वृत्तात्प्रातिपदिकात् तादधैं चतुर्थीबहुवचनम् / हिंसाय हिसाथ हिंसाप्रयोजनं रौद्रं भवति ध्यानम् / एवमनृताय स्तेयाय विषयसंरक्षणाय चेति वाच्यम् / रौद्रमित्युक्तं निर्वचनं प्राक् / अविरतश्च देशविरतश्च कृतद्वन्द्वी स्वामिनी रौद्रध्यानस्य निर्दिष्टो षष्ठीद्विवचनेन / अविरत-देशविरतयोस्तु रौद्रं ध्यानमेतावस्य ध्यातारावित्यर्थः / एतदेव भाष्यकारो विवृणोति-हिंसार्थमित्यादिना / स्पष्टमेव तादर्थ्य दर्शयति / ___"प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" (तत्त्वार्थ० VII.8) / तच्च सत्त्वव्यापादनोबन्धनपरितापनताडनकरचरणश्रवणनासिकाऽधरवृषणशिश्नादिच्छेदनस्वभावं हिंसानन्दम् / तत्र स्मृतिसमन्वाहारो रौद्रध्यानम् / ये च जीवव्यापादनोपायाः परस्य च दुःखोत्पादनप्रयोगास्तेषु च स्मृतिसमन्वाहारो हिंसानन्दमिति प्रथमो विकल्पः / प्रबलरागद्वेषमोहस्यानृतं प्रयोजनवत् / कन्याक्षितिनिक्षेपविप्रलापपिशुनासभ्यासद्भूतघातातिसन्धानप्रवणमसदभिधानमनृतम् / तत्परोपघातार्थमनुपरततीव्ररौद्राशयस्य स्मृतेः समन्वाहारः / तत्रैवं दृढप्रणिधानमनृतानन्दमिति / स्तेयार्थ स्तेयप्रयोजनमधुनोच्यते। तीव्रसङ्क्लेशाध्यवसायस्य ध्यातुः प्रबलीभूतलोभप्रचाराहितसंस्कारस्य अपास्तपरलोकापेक्षस्य परस्वादित्सोरकुशलः स्मृतिसमन्वाहारः। द्रव्यहरणोपाय एव चेतसो निरोधः प्रणिधानमित्यर्थः / विषयसंरक्षणार्थ चेति चतुर्थो विकल्पः / चशब्द: समुच्चये / विषयपरिपालनप्रयोजनं च भवति रौद्रं ध्यानम् / विषमिव यान्ति विसर्पन्ति परिभुज्यमानाः / पृषोदरा