SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्रस्य ध्यानप्रकरणम् सम्बन्धो विपरीतशब्देन क्रियत इत्याह-विप्रयोगे तत्सम्प्रयोगायेत्यादि / तत्सम्प्रयोगार्थस्तत्सम्प्रयोगाय सम्प्रयोगप्रयोजनः स्मृतेः समन्वाहारः। कथं नु नाम भूयोऽपि तैः सह मनोज्ञविषयैः संप्रयोगः स्यान्ममेति / एवं प्रणिधत्ते दृढं मनः / तदप्यार्तमिति / (33) किञ्चान्यविति तुरीयमार्तप्रकारं दर्शयति ___SUTRA निदानं च / (IX.34) BHASYA कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यानं भवति / (34) TIKA निपूर्वाद् दातेर्लवनार्थस्य ल्युटि रूपम् / निदायते-लूयते लुप्यते येनात्महितमैकान्तिकात्यन्तिकानाबाधसुखलक्षणं तनिदानमिति / चशब्द। समुच्चये / एष चार्तप्रकार इत्यर्थः। कामोपहतचित्तानामित्यादि / कामः- इच्छाविशेषः शब्दाशुपयोगविषयः / अथवा मदनः-कामः / चिरमुग्रं तपोऽनुष्ठाय कर्मक्षपणक्षममदीर्घदर्शितया स्वल्पस्य विनश्वरस्यावितृप्तिकारिणः सुरमनुजसुखैश्वर्यसौभाग्यादेः कृते, तत्रैव कृतदृढप्रणिधानाः, बह्वविनश्वरं सतततृप्तिकारणमुक्तिसुखमनुपममवमन्य प्रवर्तमानाः, कामोपहतचेतसः पुनर्भवविषयगृद्धा विदधति यन्निवानं तदार्तध्यानं निदानरूपम् / एष एवार्थो विभक्त्यन्तरेण प्रतिपादितः-कामोपहतचित्तानां पुनर्भवविषयसुखगृखानां निदानमार्तध्यानं भवतीति / तस्यतस्यार्तध्यानस्य चतुःप्रकारस्यापि शोकादीनि लक्षणानि भवन्ति, यैरार्तध्यायी लक्ष्यते करतलपर्यस्तप्रम्लानवदनः शोचति क्रन्दति विलपति हा हा अहो धिक् कष्टं हुं मृतोऽस्म्युरस्ताडं परिदेवते दीर्घ निश्वसिति कवोष्णं शून्यव्याक्षिप्तचित्त इवोपलक्ष्यते / तथा कलहमायामात्सर्यासूयास्तथा अरतिः स्त्रीभोजनकथा सुहृत्स्वजनानुरागाश्च तस्य लक्षणानि भवन्ति परिस्फुटानीति / (34) इत्थमार्तध्यानं सभेदकमभिधायाऽधुनास्यैव ध्यातारः स्वामिनो निरूप्यन्त इति तदर्थमाह SOTRA तदविरतदेशविरतप्रमत्तसंयतानाम् / (IX.35) BHASYA तदेतदातध्यानमविरतदेशविरतप्रमत्तसंयतानामेव भवतीति / (35) TIKA तदित्यार्तमभिसम्बध्यते / तदार्तध्यानमविरतसम्यग्दृष्टयादीनां त्रयाणां स्वामिनां
SR No.032865
Book TitleJaina Meditation Citta Samadhi Jaina Yoga
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherJain Vishva Bharati
Publication Year1986
Total Pages170
LanguageHindi, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy