________________ चित्त-समाधि : जैन योग अतिर्धातुर्दुःखार्थः / तस्यातिरिति रूपम् / अतिश्च-दुःखं शारीरं मानसं चानेकप्रकारं; तस्यां भवमातं ध्यानम् / अमनोज्ञा-अनिष्टाः शब्दादयः, तेषां सम्प्रयोगे सम्बन्धे इन्द्रियेण सह सम्पर्के सति चतुर्णी शब्द-स्पर्श-रस-गन्धानामेकस्य च योग्यदेशावस्थितस्य द्रव्यादेः स्वेन विषयिणा ग्राह्यग्राहकलक्षणे सम्प्रयोगे सति तद्विप्रयोगायेति / तदित्यमनोज्ञविषयाभिसम्बन्धः। तेषाममनोज्ञानां शब्दादीनां विप्रयोगोऽपगमस्तदर्थं विप्रयोगायानिष्टशब्दादिविषयपरिहाराय यः स्मृतिसमन्वाहारस्तदार्तम् / स्मृतिसमन्वाहारो नाम तद्विप्रयोगादेवानुग्रहप्रतिपत्तीच्छया य आत्मनः प्रणिधानविशेषः / स समन्वाहारः स्मृतेः कथमहमस्मादमनोज्ञविषयसम्प्रयोगाद् विमुच्येयेति / स्मर्यतेऽनेनेति स्मृतिर्मनोऽभिधीयते / स्मृतिहेतुत्वाद् वा स्मृतिर्मनः / तस्याः स्मृतेः प्रणिधानरूपायाः समन्वाहरणं समन्वाहारः / अमनोज्ञविषयविप्रयोगोपाये व्यवस्थापनं मनसो निश्चलमार्तध्यानम् / केनोपायेन वियोगः स्यादित्येकतानमनोनिवेशनमार्तध्यानमित्यर्थः / (31) किञ्चान्यदिति सम्बध्नाति, प्रकारान्तरमन्यदस्यार्तस्यास्तीत्याह SUTRA वेदनायाश्च / (IX.32) TIKA वेदनं—वेदनाया अनुभवः / अनन्तरसूत्रमनुवर्तते तदभिसम्बध्नन् भाष्यकृदाह BHASYA वेदनायाश्चामनोज्ञायाः सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहार आर्तमिति / (32) / किञ्चान्यत् TIKA वेदनाया अमनोज्ञाया इत्यादि / सुखा दु:खा चोभयी वेदना। तत्रामनोज्ञायाः सम्प्रयोगे वेदनायाः प्रकुपितपवनपित्तश्लेष्मसन्निपातनिमित्तैरुपजाताया: शूलशिरःकम्पज्वराक्षिश्रवणदशनादिकायास्तद्विप्रयोगाय स्मृतिसमन्वाहारो ध्यानमार्तम् / एष द्वितीयो विकल्पः / किञ्चान्यदित्यार्तप्रकारान्तरं दर्शयति SUTRA विपरीतं मनोज्ञानाम् / (IX.33) BHASYA मनोज्ञानां विषयाणां मनोज्ञायाश्च वेदनाया विप्रयोगे तत्सम्प्रयोगाय स्मृतिसमन्वाहार आर्तम् / (33) / किञ्चान्यत् TIKA मनोज्ञा-अभिरुचिता इष्टाः प्रीतिहेतवः / तेषां विपरीतं संयोजनं कार्यम् / मनोज्ञानामित्यादि। मनोज्ञानां विषयाणां वेदनायाश्च मनोज्ञायाः विपरीतं प्रधानार्थाभि