________________ 46 तस्वार्थसूत्रस्य ध्यानप्रकरणम् ग्लपयति निरस्यति शुक्लमिति / एतावदेव ध्यानं चतुर्विधमिति / (29) BHASYA तेषाम् TIKA तेषामित्यनेन सूत्रं सम्बध्नाति SOTRA परे मोक्षहेतू / (IX.30) BHASYA तेषां चतुर्णां ध्यानानां परे धर्म्य-शुक्ले मोक्षहेतू भवतः / पूर्वे त्वार्तरौद्र संसारहेतू इति / (30) TIKA तेषां चतुर्णामित्यादि। यानि प्रस्तुतानि ध्यानानि तेषामार्त-रोद्र-धर्म-शुक्लानां चतुर्णा ध्यानानां सूत्रसन्निवेशमाश्रित्य परे धर्म्य-शुक्ले मोक्षहेतू-मुक्तेः कारणतां प्रतिपद्यते / तत्रापि साक्षात् मुक्तेः कारणीभवतः पाश्चात्यो शुक्लध्यानभेदी सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियं चानिवति / धर्म्यध्यानं पुनराद्याभ्यां सह शुक्लभेदाभ्यां पारंपर्येण मोक्षस्य कारणं भवति, न साक्षादिति / ततश्चैतद्धर्म्यध्यानादि देवगतेर्मुक्तेश्च कारणं, न मुक्तेरेव / अर्थादिदमगम्यमानमाह-पूर्वे त्वार्तरौद्र संसारहेतू इति / बार्त-रौद्रयोः संसारहेतुतैव, न जातुचिन्मुक्तिहेतुता। संसारश्च नारकादिभेदश्चतुर्गतिक इति / परमार्थतस्तु रागद्वेषमोहाः संसारहेतवः / तदनुगतं चातरौद्ररूपमपि प्रकृष्टतमरागद्वेषमौहभाजः / अतः संसारपरिभ्रमणहेतुता तयोरिति / (30) BHASYA अत्राह-किमेषां लक्षणमिति / अत्रोच्यते TIKA सम्प्रति ध्येयप्रकारा विषयविषयिविकल्पनिमित्तभेदेनोच्यन्ते–अत्राहेत्यादि सम्बन्धः / लक्ष्यते येन तल्लक्षणं विलापशोकादि / अमनोज्ञविषयसम्बन्धे क्रन्दति शोचतीति लक्ष्यते आर्तध्यायी। SUTRA आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः। (IX.31) BHASYA अमनोज्ञानां विषयाणां सम्प्रयोगे तेषां विप्रयोगार्थ यः स्मृतिसमन्वाहारो भवति तदार्तध्यानमित्याचक्षते / (31) / किञ्चान्यत् TIKA आर्तममनोज्ञानामित्यादि / आर्तशब्द। पूर्ववद् व्याख्येयः / अयं चापरप्रकारः /