________________ 48 चित्त-समाधि : जैन योग SUTRA आ मुहूर्तात् / (IX.28) BHASYA तद्धयानमा मुहूर्ताद् भवति परतो न भवति दुर्ध्यानत्वात् / (28) TIKA आ मुहूर्तादिति / घटिकाद्वयं मुहूर्तः / अभिविधावाङ / अन्तर्मुहूर्तपरिमाणं न परतो मुहूर्तादित्यर्थः / तयानमित्यादि / तदेतत् सामान्यलक्षणोक्तं ध्यानं चतुर्विधमप्यामुहूर्तात् भवति, परतो न भवत्यशक्तेरेव / यस्मान्मोहनीयकर्मानुभावात् संक्लेशाद् वा विशोध्या वान्तर्मुहूर्तात् परावर्तते / उक्तं च-- नान्तर्मुहूर्त कालं व्यतीत्य शक्यं हि जगति सङ्क्लेष्टुम् / नापि विशोद्धं शक्यं प्रत्यक्षो ह्यात्मनः सोऽर्थः / किं पुनः कारणं परतो न ध्यानमस्तीत्याह-दुनित्वात् / दुरितिशब्दो वैकृते वर्तते / विकृतो वर्णो दुवर्ण इति यथा / एवं विकृतं ध्यानं विकारान्तरमापन्नं दुर्ध्यानमिति / अथवा व्यद्धौ दुःशब्दः / ऋद्धिवियुक्ता यवना दुर्यवनं दुष्कम्बोजमिति / एवं ध्यानलक्षणविनिर्मुक्तं दुर्ध्यानम् / अनीप्सायां वा दुःशब्दः / अनीप्सितोऽस्या भग इति दुर्भगा कन्या / एवमनीप्सितं दुर्ध्यानमिति / तद्भावो दुर्ध्यानत्वम् / तस्माद् दुर्ध्यानत्वान्न परतो ध्यानमस्ति / (28) सामान्येन ध्यानलक्षणमभिधाय सम्प्रति भेदकथनायाह SUTRA आर्त-रौद्र-धर्म्य-शुक्लानि / (Ix.29) BHASYA तच्चतुर्विधं भवति–तद्यथा आतं, रौद्र, धर्म्य, शुक्लमिति / (29) TIKA कृतद्वन्द्वान्यार्तादीनि नपुंसकबहुवचनेन निर्दिष्टानि-तच्चतुर्विधं भवतीत्यादि / तद्धयानं सामान्येन लक्षितं चतुर्विधं भवति–चतुर्धा भिद्यते। चतस्रो विधा यस्य तच्चतुर्विधम् / विधाप्रदर्शनायाह-तद्यथेति / आतं, रौद्र, धर्म्य, शुक्ल मिति / तत्रार्तस्य शब्दनिर्भेदाभिधानम् / ऋतशब्दो दुःखपर्यायवाच्याश्रीयते / अर्तेर्गमिक्रियापरिस्पन्दिनो निष्ठाप्रत्ययान्तः / 'तस्मादागता'थें तद्धितप्रत्ययो णित् / आर्त दुःखभवं दुःखानुबन्धि चेति / तथा चामनोज्ञविषयप्रयोगो दुःखम् / वेदना च नेत्रशिरोदशनादिका दुःखमेव / तथा मनोज्ञविषय विप्रयोगोऽशर्मैव / निदानमपि चित्त दुःखासिकयैव क्रियत इत्युपपन्नः प्रत्ययार्थः / तथा रोदयत्यपरानिति रुद्रो दुःखस्य हेतुः / तेन कृतं तत्कर्म वा रौद्रम् / प्राणिवधबन्धपरिणत आत्मैव रुद्र इत्यर्थः / धर्मः क्षमादिदशलक्षणकस्तस्मादनपेतं धर्म्यम् / शुक्लंशुचि निर्मलं सकलकर्मक्षयहेतुत्वादिति / शुग्वा दुःखमष्टप्रकारं कर्म तां च शुचं क्लमयति