________________ नित्य नियम पूजा [ 197 औपपादिक-मनुष्येभ्यः शेषास्तिर्यग्योनयः 27 स्थितिरसुरनाग-सुपर्ण द्वीप शेषाणां सागरोपम-त्रिपल्योपमा हीन. मिता: 28 सौधर्मेंशानयोः सागरोपमऽधिके 29 / सानत्कुमार माहेन्द्रयोः सप्त / 30 / त्रि-सप्तनवैकादश-त्रयोदशपञ्चदशभिरधिकानि तु 31 / आरणाच्युतादूर्ध्वमेकैकेन-नवसु ग्रेवेयकेषु विजयादिषु सर्वार्थसिद्धौ च / 32 / अपरापल्योपममधिकम् / 33 / परतः परतः पूर्वापूर्वाऽनन्तरा 34 नारकाणां च द्वितीयादिषु 35 / दश वर्ष सहस्त्राणि प्रथमायाम् / 36 भवनेषु च / 37! व्यन्तराणां च / 38 परापल्योममधिकम् / 39 ज्योतिष्काणां च 40 / तदष्टभागोऽपरा / 41 लौका. न्तिकानामष्टौ सागरोपमाणि च सर्वेषां / 42 // इति तत्त्वार्थाधिगमे मोक्षशास्त्रो चतुर्थोऽध्यायः // 4 // अजीवकाया धर्माधर्माकाश-पुद्गलाः / 1 / द्रव्याणि।२ जीवाश्च / 3 / नित्यावस्थितान्यरूपाणि / 4 रुपिणः पुद्गलाः / 5 / आकाशादेकद्रव्याणि / 6 / निष्क्रियाणि च 171 असंख्येयाः प्रदेशा धर्माधर्मैक जीवानाम् |8| आकाशश्यानन्ताः 9 / संख्येयासंख्येयाश्च पुद्गलानाम् / 10 / नाणोः 11 // लोकाकाशेऽवगाहः / 12 / धर्माधर्मयोः कृत्स्ने / 13 / एकप्रदेशादिषु भाज्य: पुद्गलानां 14 / असंख्येयभागादिषु जीवानाम् / 15 / प्रदेश-संहारविसर्पाभ्यां प्रदीपवत् / 16 / गति-स्थित्युपग्रहौ धर्माधर्मयोरुपकारः / 17 /