________________ 'नित्य नियम पूजा [ 191 तत्वार्थसूत्रां [ आचार्य गुद्धपिच्छ] मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृतां / ज्ञातारं विश्वतत्त्वानां वंदे तद्गुणलब्धये / / प्रकाल्यं द्रव्य-षटकं नव-पद-सहित जीव-षटकाय-लेश्याः / पंचान्ये चास्तिकाय व्रत-समिति-गति-ज्ञानं चारित्रभेदाः // इत्येतन्मोक्षमूलं त्रिभुवन-महितः प्रोक्तमहद्भिरीशैः। प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः सवै शुद्धदृष्टिः। सिद्धे जयप्पसिद्धे चउविहाराहणाफलं पत्ते / वंदिता अरहते वौच्छं आराहणा कमसो / उज्जोवणमुज्जवणं णिव्वहणं साहणं व णिच्छरण / दसण-णाण चरित्त तवाणमाराहणा भणिया * 3 // सम्यग्दर्शनज्ञान-चारित्राणि मोक्षमार्गः / 1 / / तत्त्वार्थ-श्रद्धानं सम्यग्दर्शनं / / 2 / तनिसर्गादधिगमाद्वा।३। जीवाजीवास्रव-बंध-संवर-निर्जरा-मोक्षास्तत्वं / 4 / नामस्थापना-द्रव्य-भावतस्यन्न्यासः // 5 // प्रमाणनगरधिगमः। निर्देश-स्वामित्व-साधनाधिकरण-स्थिति-विधानतः / 7 // सत्संख्या-क्षेत्र-स्पर्शन-कालांतर-भावाल्पबहूत्वैश्च // 8 // मति-श्रुतावधि-मनःपर्यय-केवलानि ज्ञानं // 9 / तत्प्रमाणे // 10 // आद्ये परोक्षं // 11 / / प्रत्यक्षमन्यत् / / 12 // मतिस्मृतिः संज्ञा चिंताऽभिनिबोध इत्यनर्थान्तरं // 13 //