________________ 188 नित्य नियम पूजा स्वर्गापवर्ग-गम-मार्ग-विमार्गणेष्टः, सद्धर्म-तत्व-कथनैक-पटस्त्रिलोक्याः / दिव्यध्वनिर्भवति ते विशदार्थ-सर्वभाषा-स्वभाव-परिणाम-गुणैः प्रयोज्यः // 35 // उन्निद्र-हेम-नव-पंकज-पुज-कांती, पर्दूल्लसन्नख-मयूख-शिखाभिरामौ / पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः, पमानि तत्र विबुधाः परिकल्पयंति / 36 // इत्यं यथा तव विभूतिरभूज्जिनेन्द्र ! धर्मोपदेशन-विधौ न तथा परस्य / यादृक्प्रभा दिनकृतः प्रहतान्धकारा, तादृक् कुतो ग्रहगणस्य विकासिनोऽपि // 37 / श्च्योतन्मदाविल-विलोल-कपोल-मूलमत्त-भ्रमद्-भ्रमर-नाद-विवृद्ध-कोपम् / ऐरावताभमिभमुद्धतमापतन्तं, दृष्ट्वा भयं भवति नो भवदाश्रितानां // 38 // भिन्नेभ-कुम्भ-गलदुज्ज्वल-शोणिताक्तमुक्ताफल-प्रकर-भूषित-भूमि-भागः / बद्धक्रमः क्रमगतं हरिणाधिपोऽपि, नाकामति क्रम-युगाचल-संश्रितं ते / 39 /