________________ 30 सटीकाद्वैतदीपिकायाम् क्वचिनेति अनुभवसिद्धो निराकतुंमशक्य एव / अतस्तदेव लक्षज्ञेन ज्ञाप्यते / किञ्च यदि वाच्यत्वजिज्ञासा तदा तस्य स्वरूपेण ज्ञातत्वात् चन्द्रपदप्रवृत्ति. निमित्तविषय एव प्रश्नो वक्तव्यः / तदा उत्तरमसङ्गतं, प्रकृष्टप्रकाशत्वस्य सदभावात् / अन्यथा सर्वत्राप्युपाधिरेव प्रवृत्तिनिमित्तमिति जातिर्न स्यात् / अत एव प्रकृष्टप्रकाशत्वातिरिक्तजाति रेव नेति निरस्तम् / तव मतेऽपि प्रकृष्टप्रकाशजनकतावच्छेदकत्वेन तस्यावश्यकत्वाच्च / न च प्रकृष्टप्रकाशपवेन चन्द्रत्वं लक्ष्यत इति वाच्यम् / प्रकृष्टप्रकाशसम्बन्धित्वेन तस्य पूर्वज्ञाने चन्द्रस्ववांश्चन्द्रपदवाच्य इति वाक्यावपि प्रकृष्टप्रकाशे तत्संशयनिवृत्तिप्रसङ्गात् / तस्यासाधारणरूपेण प्रकृष्टप्रकाशसंबन्धाज्ञाने च न ततः तल्लक्षणा। न च प्रकृष्टप्रकाश एव चन्द्रपदवाच्य इति सामर्थ्यानिश्चीयते ततो लाघवादिना चन्द्रत्वप्रवृत्तिनिमित्तत्वं स्वयमेव ज्ञास्यतीति सर्वमुपपद्यत इति वाच्यम् / मानार्थत्वनिश्चयवतः तथा बोधासंभवात् / न च तस्य चन्द्रत्वसमानाधिकरणचन्द्रपदवाच्यत्वमेव तत्प्रतिपादयतीति वाच्यम् / तथात्वे लाघवावश्यकत्वाभ्यां चन्द्रत्वस्यैव वाक्यार्थत्वात् / सिद्धान्ते तु वाक्येन स्वरूपे ज्ञाते तस्य तत्पदवाच्यत्वमनुमानात् सिद्धयति / एवं परमते प्रश्रानुपपत्तिमुक्त्वा उत्तरस्याप्यसामञ्जस्यमाह-किम्चेति / न तावन् यथाश्रते प्रकृष्टप्रकाशवैशिष्टय प्रतिवचनप्रमेयं, तस्य प्रत्यक्षेणावगतत्वात् / नापि तद्विशिष्टस्य चन्द्रत्ववैशिष्टयमज्ञातं तत्प्रमेयमिति वाच्यम् / नागृहीतविशेषमान्यायेव लाघवेन च ज्ञातचन्द्रप्रातिपदिकार्थस्यैव तत्प्रमेयत्वापातात् / नापि चन्द्रपदवाच्यत्वं तत्प्रमेयं, तस्यापि चन्द्रपदवाच्यं किञ्चिदस्तीति सामान्यतोऽवगमात् / तत्प्रवृत्तिनिमित्तमेव प्रश्नविषयो वाच्यः / तथा च प्रकृष्टप्रकाशत्वं चन्द्रपदप्रवृत्तिनिमित्तमिति प्रतिवचनार्थः [इति] / तच्चायुक्तम् / उपाधेः सखण्डस्याखण्डशब्दालम्बनत्वायोगात् / इतरथा तस्यैवानुगतबुद्धयालम्बनत्वस्यापि संभवात् जातिशून्यं जगत् स्यात् इत्यर्थः। प्रकृष्टप्रकाशत्वमेव चन्द्रत्वं जातिः ततो नोक्तदोष इत्याशङ्क्याहअतएवेति / तस्य' सखण्डतयोपाधित्वादित्यर्थः। किञ्च प्रकृष्टप्रकाशस्य चन्द्रगतागन्तुकगुणविशेषत्वात् समवायितावच्छेदकतया तदतिरिक्तजातिरभ्युपेयेत्याह--न वेति / तहि प्रकृष्टादिपदेन चन्द्रत्वं लक्षणयोपादाय तस्य' प्रवृत्तिनिमित्तता वाक्येन बोध्यत इत्याशङ्क्याहन चेति / कि प्रकृष्टप्रकाशेन असाधारणसंवन्धवत्तया चन्द्रत्वज्ञानं उत न, आद्ये आह–प्रकृप्टेति / न च संबन्धग्रहात्प्राक् चन्द्रत्ववान् इति वाक्यमबोधकमिति वाच्यम् / पूर्वोक्तन्यायेन चन्द्रत्वे ज्ञाते चन्द्रत्वं नाम काचिज्जातिः इति वाक्यादेव तद्ग्रहसंभवादिति भावः। द्वितीये हेत्वभावान्न लक्षणेत्याह-तस्येति / तहि चन्द्रपदवाच्यत्वस्याश्रयविशेषसंसर्ग एव तत्प्रतिपाद्य इत्याशङ्क्याह