________________ चतुर्थः परिच्छेदः चन्द्रत्वविशिष्टविषयत्दात् / तस्मात् पूर्व चन्द्रत्वस्वरूपमज्ञातं उपदेशसहकृतप्रत्यक्षेण निर्णीयते इत्यावश्यकत्वात् चन्द्रपदार्थ एव प्रश्नविषय / चन्द्रस्वरूपज्ञानार्थमुदेशः __मनु यत्रानुगतप्रत्ययादपि जातिनिर्णयः तत्र किमर्थमुपदेश इति चेत् भ्रान्तोऽसि / नयदेशेन काचिज्जातिरस्तीति निणीयते। किन्तु तस्याः स्वरूपं तच्चोपदेशात्पूर्व प्रकृष्टप्रकाशेन ज्ञातं तेन ज्ञायते / अन्यथा तत्र पूर्व तत्संशयस्ये. दानों तन्निवृत्तश्चायोगात् / जातौ च स्वरूपविशेषः परेणाप्यभ्युपेयः। कथमन्यथा प्रमेयवानयं घटोऽयमिति ज्ञानयोलक्षण्यं स्यात् प्रकारभेदाभावात् न च तत्र घटत्वतात्मना घटत्वं प्रतीयते। इतरत्र नेति वाच्यम् / तत्स्वरूपव्यतिरेकेण घटत्वताया अभावात् घटेतरावत्तित्वघटितस्य तस्य पटादिव्यावृत्तघटस्वरूपपरिज्ञानाधीनज्ञानत्वेनान्योन्याश्रयात् / वलक्षण्यानङ्गीकारे च तयोः कार्यविशेषो न स्यात् / स्वरूपविशेषश्च दुनिरूपोऽपि सहकारिबलात् क्वचिद्भाति विशेषः। किञ्च वाच्यत्वबोधनपक्षे सर्वपदानां नानार्थत्वभ्रदशायां गोत्वानधिकरणस्यापि गोशब्दवाच्यत्ववत् चन्द्रत्वानधिकरणस्यापि चन्द्रपदवाच्यत्वं संभावयतः अयं निश्चयस्य त्वयवाभ्युपेतत्वात् / अत एव चन्द्रत्वसमानाधिकरणचन्द्रपदवाच्यत्वविषयः संशय इति निरस्तम्। एकस्मिन् प्रकृष्टप्रकाशे उभयोरपि निश्चये तदयोगात् / तथाचास्मदुक्तविधया चन्द्रस्वरूपाज्ञानमेव संशयप्रयोजकमित्यत्रापि तथैवेभिप्रेत्योपसंहरति-तस्मादिति / लक्षणवाक्यैः प्रकृप्टप्रकाशादौ चन्द्रत्वादिजातिनिर्धार्यत इत्युक्तं, तन्न / जातिनिर्णयस्यान्याय्यत्वात् न वाक्यापेक्षेति चोदयति ननु यत्रेति / व्यक्त्यतिरिक्तजातिसद्भावमात्रमनुगतप्रत्ययावसेयम् तद्विशेषरूपं तु उपदेशगम्यमित्याह-नहीति / ननु जातौ गुणजात्यादेरभावात् को वा विशेषः यस्याज्ञानात् संशयादिरित्याशङ क्याह-जातौ चेति / जातौ विशेषो नाम न धर्मः / किन्तु यस्मिन्नवगते स्वस्येतरव्यावृत्तताऽवगम्यते तदेव स्वरूपं तस्य विशेषः स चावश्यक इत्यर्थः। तदनङ्गीकारे बाधकमाह-कथमित्यादिना / अन्योन्याश्रयादिति / घटेतरावृत्तित्वे सति सकलघटवृत्तित्वरूपघटत्वताज्ञानाभावे तद्विशिष्टघटत्वविशेष्यकोऽयंघट इति ज्ञानाभावः / एतदभावे च घटत्वस्येतरावृत्तित्वे सति एतद्वृत्तित्वरूपघटत्वताज्ञानाभावात् नैकमपि सिद्ध्येदित्यर्थः / प्रमेयवानयं घटोऽयमिति ज्ञानयोर्मास्तु वैषम्यमित्यत आह-लक्षण्येति / कार्य विशेषः संशयतन्निवृत्त्यादिः / चन्द्रत्वादावज्ञातस्वरूपविशेषोऽस्तीति चेत् ईदृशः सा इति शब्दान्तरेण वक्तव्यः स इत्याशडक्य इक्षुक्षीरगुडादिमाधर्यवैषम्यवदनुभवसिद्धो न त्वभिधाई इत्यभिप्रेत्याह-स्वरूपविशेषश्चेति /