________________ सटीकाद्वैतदीपिकाया ब्रह्मादिपदं विशिष्टस्य धर्ममात्रस्य वा वाचकं पदत्वात् सम्प्रतिपन्नवत् इति वाऽनुमानमस्तु / अत एव परोक्ता हेतवो बाधिताः अप्रयोजकाश्च / एवं यतो वाचो निवर्तन्ते अप्राप्यमनसा सहेति श्रुतिरपि शब्दस्य प्राप्ति वारयन्ती तस्य शक्ति ब्रह्मणि निषेधति शब्दस्यार्थेन शक्तरेव प्राप्तित्वात्, लक्षणाया अर्थप्राप्तित्वेन तनिषेधायोगात् / लक्षणानिषेधे 'सर्वे वेदा यत्पदमामनन्ति' इत्यादिश्रुतिविरोधाच्च / मनसा सहेति च मनसः करणत्वमेव निषिध्यते स्वरूपेण निषेधायोगात् / केवलमनोगम्यत्वं वा निषिध्यते / अमेयगुणत्वात् पदावाच्यत्वं ननु अमेयगुणत्वं यतो वाचो निवर्तन्त इति श्रुत्यर्थ इति चेत् अमेयत्वं यदि गुणस्य मानागोचरत्वं तदा निर्गुणमेव ब्रह्मेति वाच्यत्वनिषेधः / अथ सङ्ख्याशून्य योग्यतानुरोधात् विशेष्यमात्रे साध्यानङ्गीकारे बाधकमाह--अन्यथेति / वेदान्ततात्पर्यविषयो ब्रह्म वाच्यमिति त्वदुक्तानुमानात् विशिष्टस्यैव वाच्यत्वमिति सिद्धसाधनं स्यात् / अत एव वाक्ये न लक्षणेति प्रत्युक्तम् तस्यापि योग्यताद्यनुरोधेनैव बोधकत्वादिति भावः / वेदान्तगतनिखिलपदानांविशिष्टस्य धर्ममात्रस्य वा वाचकत्वे साधितेऽर्थात् केवलस्यावाच्यत्वसिद्धिरित्यभिप्रेत्याह-ब्रह्मादीति / धर्ममात्रवाचकत्वेऽपि घटादिवदपर्यवसानात् ब्रह्मलाभ इति शङ्का प्रागेव निरस्ता। न च विशिष्टब्रह्मण एव वेदान्तमहातात्पर्यगोचरत्वात् मदिष्टसिद्धिरिति वाच्यम् / तेषामखण्डपरत्वस्य अनन्तरवादे निपुणतरमुपपादयिष्यमाणत्वात् / किञ्च सत्यत्वादिविशिष्टं ब्रह्म न वेदान्तमहातात्पर्यगोचरं निष्प्रयोजनत्वात् सम्मतवत् / न चासिद्धिः तस्योपपादनात् / अतो न सत्यादिपदवाच्यविशिष्टरूपस्य तत्तात्पर्यगोचरतेति भावः / एवं च बहुयुक्युपोद्वलितत्वाच्यत्वानुमानानां प्रबलत्वात् तद्विरोधात् वस्तुत्वादित्यादय आभासा इत्याह-अतएवेति / परकीयहेतूनां श्रुतिबाधितत्वमप्याह-एवमिति / प्राप्तिनिषेधमात्रेण कथं शक्त्यभावसिद्धिरित्यत आह-शब्दस्येति / तहि लक्षणाया अपि लक्ष्यार्थप्राप्तिरूपत्वात् सापि न स्यादित्याशक्याह-लक्षणाया इति / शक्यसंबन्धरूपायास्तस्याः परम्परासंबन्धरूपत्वात् न मुख्यप्राप्तिः सेत्यर्थः / इतोऽपि न लक्षणा निषेधस्तदर्थ इत्याह-लक्षणेति / यच्चोक्तं मनसा सहेतिश्रवणं मनोवृत्तेरिव वाग्वृत्तेरपि निषेधायोग इति तत्राह-मनसेति / स्वरूपेणेति / कामः संकल्प इत्यादिना मनसः प्रमातृत्वाभिधानादित्यर्थः / शब्दासहकृतत्वं वा केवलशब्दार्थः। श्रुतेरन्यार्थकत्वान्न बाधकतेत्याशक्य दूषयति - नन्विति / लक्षणानुपपत्त्या बोध्यते लक्षणया वा ? नाद्यः तद्वाचकपदाभावादित्यभिप्रेत्याह-तन्नेति / न द्वितीयोऽपीत्याह-आनन्दमिति / 'विज्ञानमानन्द ब्रह्म," "आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते" इत्यादिन्यायोपेतश्रुतिमिः आनन्दब्रह्मणो.