________________ चतुर्थः परिच्छेदः 15 शब्दैरेव परं प्रति प्रतिपादनेऽनवस्थेति मूकतापत्तिरिति चेत्; न, ब्रह्मण उक्तविधया निर्धर्मत्वं सत्यज्ञानाद्यात्मत्वं तस्मिन सत्यादिपदव्युत्पत्तिप्रकारं आनन्दादिस्वरूपस्यैवानन्दादिपदलक्ष्यत्वं चावगच्छतः आनन्द एव ब्रह्मेत्युपदेशादेव योग्यताद्यनुसारेण धर्मिणोरेवाभेदावगमसंभवात् / विशेषणभेदप्रयुक्तमेव भेदं विशिष्टयोरवगच्छतस्तदभेदप्रतीतेः स्वरूपविषयत्वात् / प्रवृत्तिनिमित्ताभावादपि न ब्रह्मणि पदानां शक्तिः पारमार्थिकजातिगुणक्रियादेः असंभवात् / तदसंभवश्च लक्षणां विनापि निरूपयितुं शक्यत इति न त्वदुक्तान्योन्याश्रयः / कल्पितगुणक्रियावैशिष्टये च वेदान्ततात्पर्यायोगात् / शुद्धस्य लक्ष्यत्वे मानं श्रुतिश्च ननु वेदान्ततात्पर्यगोचरत्वविशिष्टब्रह्मणः स्वप्रतिपादकवाक्यस्थपदाशक्यत्वसिद्धावपि न विशेष्यब्रह्मणः तसिद्धिरिति चेत्, न, अनुमितिहि पक्षतावच्छेदकधर्माश्रयस्यैवान्यत्वं विषयीकरोति / सर्वत्रापि साध्यस्य पक्षताश्रयवैशिष्टयवानुमितिविषयत्वात् / निर्धर्म के ब्रह्मणि वेदान्ततात्पर्यविदुषो वेदान्ततात्पर्यगोचर इतिपदात् लक्षणया तस्यैवोपस्थितेर्वक्तव्यत्वात् / अन्यथा त्वदीयानुमानमपि नास्मवभिमतब्रह्मणो वाच्यत्वं विषयीकुर्यात् / तादित्यभिप्रेत्य परिहरति-न ब्रह्मण इत्यादिना / धर्मिणोरिति / आनन्दब्रह्मपदार्थविशेष्ययोरेवेत्यर्थः / आनन्दो ब्रह्मैवेति वाक्यात् विशेष्ययोरेवाभेदावगमे हेनुमाहविशेषणेति / ब्रह्मणि पारमार्थिक शब्दप्रवृत्तिनिमित्ताभावादपि न तत्र पदशक्तिरित्याह-प्रवृत्तीति / सत्यादिपदानां लक्षकत्वं विना प्रवृत्तिनिमित्ताभावो न सिध्यतीत्युक्तं निरस्यति-तदसंभवश्चेति / ब्रह्मणि जातिगुणादीनामभावात् स्वरूपस्य संबन्धस्य मानस्य च दुनिरूपत्वात् दृश्यमिथ्यात्वनियमात्, श्रत्यादिनिषेधाच्च तत्र पारमार्थिकप्रवृत्तिनिमित्ताभावसिद्धिरित्यर्थः। घटादिवत् कल्पितधर्मैरेव ब्रह्मणः शब्दवाच्यता किं न स्यादित्याशक्य तथापि तस्य तद्विशिष्टतया न वाक्यार्थतेत्याह--कल्पतेति / ननु तात्पर्येण सत्यादिवाक्यप्रतिपाद्यं न तद्वाक्यस्थपदशक्यं इत्यत्र तात्पर्यगोचरत्वविशिष्टस्य धमित्वे. नाभिधानात् तेन वाक्यार्थब्रह्मणो नावाच्यत्वसिद्धिरिति चोदयति - ननु वेदान्तेति / पक्षवचनेन विशिष्टोपस्थितावपि शक्यान्यत्वरूपसाध्यं विशेष्य एव सिध्यतीति परिहरति-नानुमितिरिति / विशिष्टस्य पक्षस्योपस्थितौ कथं विशेष्यमात्रे साध्यान्वय इति वीक्षायामाह-सर्वत्रेति / धूमानुमानादपि वह्वयादिसाध्यस्य पर्वतत्वाद्याश्रयेणैव संयोगादिलक्षणवैशिष्टयस्यानुमितिगोचरत्वदर्शनादित्यर्थः। किञ्च शब्दोऽनित्य इत्यादाविव योग्यताद्यनुरोधेन धर्मिमात्रस्यैव लक्षणया बुद्धिस्थत्वात् तत्रैवावाच्यत्वं सिद्धयतीत्याहनिर्मक इति /