________________ चतुर्थः परिच्छेदः त्वात् सर्वगुणवैशिष्टयस्य तदर्थत्वे सर्वात्मत्वस्याप्यन्तर्भावादावश्यकत्वात् / स्वरूपोपचयरूपत्वाच्च तदेव ब्रह्मशब्दार्थः / आत्मशब्दार्थोऽपि व्याप्तिरूपसातत्यविशिष्टः। एवं सत्यादिशब्दार्थोऽपि बाधायोग्यत्वादिविशिष्टः शुद्धपदमपि दोषाभावविशिष्टविषयम् / एवमन्येषामपि द्रष्टव्यम् / न चैवं धर्ममात्रमेव शब्दार्थोऽस्त्विति घटादितुल्यमेव ब्रह्मेति वाच्यम् / विनिगमकाभावेन नियमेन संगतिग्रहोपस्थितस्य विशिष्टस्यैव शक्यत्वात् / घटादेस्त्वानन्त्यात विशिष्टमप्यनन्तमेवेति अनन्तशक्तिविषयत्वेन कल्पनागौरवेण जातिमात्रस्यैव शक्यत्वात्। व्यक्तरपर्यवसानलभ्यत्वात् / ब्रह्मादिपदानां धर्ममात्रवाचकत्वेऽपि घटादिवदपर्यवसानान्न ब्रह्मलाभः, सत्यज्ञानानन्दात्मकब्रह्मणो वाच्यसंबन्धितया पूर्वमज्ञातत्वात् शक्यसंबन्धितया ज्ञातस्यैव धर्मिणोऽपर्यवसानाल्लाभः / काभावादिपर्यालोचनया निरतिशयमहत्वविशिष्टस्यैव एतद्वाच्यत्वेनेह निर्णयादन्यत्र तदभावादिति भावः। द्वितीये सर्वगुणवैशिष्टयस्य सर्वगुण्यात्मतां विनाऽयोगात् सर्वात्मत्वमावश्यकमित्याह-सर्वेति / सर्वात्मकता कस्योपचय इति वीक्षायामाह-स्वरूपेति / व्याप्तिरूपेति / अत सातत्यगमन इतिधातोः आत्मशब्दनिष्पत्तेः नैरन्तर्येण संबन्धित्वं तदर्थः / तच्च सर्वदेशकालसंबन्धित्व एव पर्यवस्यतीति व्यापित्वविशिष्ट आत्मपदार्थः इत्यर्थः / तथा चोक्तम्-यच्चास्य सन्ततो भावस्तस्मादात्मेति गीयते इति / बाधायोग्यत्वादीत्यादिपदेन वृत्तिविशेषोपाधिकचैतन्येषु कल्पितज्ञानत्वादिकं गृह्यते / नित्यमुक्तादिपदानामपि ध्वंसप्रतियोगित्वबन्धाद्यभावविशिष्टं शक्यमित्याह-एवमिति / ननु घटादिपदानां घटत्वादिवाच्यमिव उक्तधर्मा एव ब्रह्मादिपदशक्याः, न तद्विशिष्टं ब्रह्म ततश्च ब्रह्मणः शब्दशक्त्यगोचरत्वेऽपि न घटादितो विशेष इति नेत्याह-न चैवमिति / घटादेरपि सङ्गतिग्रहसमये नियमेनोपस्थितत्वात् तत्रापि विशिष्टस्य शक्यत्वापात इत्याशक्य वैषम्यमाह-घटादेरिति / ब्रह्मणोऽप्यपर्यवसानादेव लाभसंभवान्न विशिष्टे शक्तिरुपयेत्याशझ्याह-ब्रह्मादीति / शक्यसंबन्धितया ज्ञातस्येति / शक्याश्रयतया ज्ञातसजानीयस्येत्यर्थः। ततश्चाज्ञातस्यापि घटादेरपर्यबसानाल्लाभसंभवः / घटत्वादिसंबंधिनः प्रमेयत्वादेर्न लाभः / ननु बाधायोग्यत्वादिधर्माश्रयतया ब्रह्मणोऽनवगतो तत्र सत्यादिपदानां सङ्गतिग्रहायोगात् तदवगतिर्वाच्या। तथा चापर्यवसानाल्लाभसम्भव इति चेन्न / वस्तुतःसत्यादिपदात्मकजगदात्मतामापन्नब्रह्मण एव तदा ग्रहणात् ततस्तद्विलक्षणस्य वाक्यार्थब्रह्मणोऽपर्यवसानाल्लाभायोगात् / न च विचारेण तादृशं ब्रह्म बुद्ध मिति वाच्यम्। तस्य तर्करूपतया स्वयमप्रमाणत्वेन वाक्यार्थनिर्णयोपकारकत्वात् मानावगत