________________ सटोकाद्वैतदीपिकायाम् भूयन्ते शब्दोऽनित्य इति प्रयोग इव शब्दत्वम् / अतो वाक्यार्थस्य ब्रह्मणो लक्ष्यत्वम विरुद्धम् / शुद्धादिपदानामपि लक्षणा एतेन सत्यादिवाक्यस्थपदानां ब्रह्मण्यशक्तावपि अर्थान्तरनिष्ठशुद्धादिपदानां किमिति न तत्र शक्तिः, तत्रोक्तबाधकामावादिति प्रत्युक्तम् / तस्य कदाचिदपि ब्रह्मादिपदासमभिव्याहारप्रसङ्गात् / किञ्च विशिष्टब्रह्मशक्तः केवलधर्मशक्तर्वा पदैः निर्गुणब्रह्मप्रमितिसिद्ध न तत्रापि शक्तिः कल्प्या। अन्यलभ्ये तदयोगात् / मुख्यार्थत्वाय शब्दशक्तिकल्पनायां गङ्गापदस्यापि तोरे शक्तिः कल्प्येत / ततश्च ब्रह्मपदं वृद्धिविशिष्ट वाचकं वृद्धिश्चोपचयः। स चात्र सर्वात्मत्वयोग्यता, न त्ववयवोपचयः। नापि गुणाधिक्यं, निर्गुणत्वात् / गुणाधिक्यमात्रस्य सर्वत्रापि सुलभ तत्राप्रतीतेः जहल्लक्षणैवात्र युक्तेत्यर्थः / अनित्यः शब्द इत्यत्र शब्दपदवाच्यस्य शब्दत्वस्याऽनित्यतानुपपत्तेः तव्यक्तिमात्रमुपादाय तस्य अनित्यत्वबोधे यथा तदवच्छेदकतया शब्दत्वं भाति तथा पदार्था अपीत्याह-शब्दोऽनित्य इति / नन्वेवमपि वाक्यार्थस्य शक्यसम्बन्धित्वेन प्रागनवगमात् कथं तत्र लक्षणेति चेन्न / स्मारकत्वे हि पूर्वावगमापेक्षया वाक्यं च न स्मारकम् / अत आकाङ्क्षाद्यनुरोधेन अज्ञातमेवार्थ लक्षणया प्रतिपादयतीति भावः / अन्यत्रापि वाक्यार्थस्य लक्ष्यत्वसाधनफलमाह-अत इति / ननु शुद्धमुक्तादिपदानां लोको मालिन्याद्यभावविशिष्ट शक्तत्वात् ब्रह्मणोऽपि तद्वाच्यत्वे पर्यायत्वादिदोषाभावान्न सर्वपदवाच्यं ब्रह्मेत्याशङ्क्याह-एतेनेति / मालि. न्यादिनिवृत्तिविशिष्टविषयस्य शुद्धादिपदस्य निधर्मके ब्रह्मणि प्रवृत्त्यनुपपत्तिः तत्र शक्त्यन्तरमेष्टव्यम् / तथा च पर्यायतापत्त्या ब्रह्मणि सहप्रयोगो न स्यादित्याह-तस्येति / किञ्च किं वाक्यार्थब्रह्मप्रमितये तत्र सत्यादिपदानां शक्तिरुपेयते उत तस्य तत्पदमुख्यार्थत्वाय / नाद्य: लक्षणयापि तत्प्रमितिसंभवादित्याह-किञ्चेति / द्वितीये दोष. माह-मुख्यार्थत्वायेति / ब्रह्मादिपदं कस्य वाचकं तेन कथं वा ब्रह्म लक्ष्यमिति वीक्षायां वाच्यार्थं तावदाह-ततश्चेत्यादिना / सर्वात्मत्वयोग्यतेति / निरतिशयोपचयस्य सर्वात्मत्व एव पर्यवसानात् प्रकरणोप. * पदादिसंकोचकाभावेन निरतिशयमहत्त्वस्य ब्रह्मपदात् प्रतीतेः तद्विशिष्टं तद्वाच्य मित्यर्थः / निरवयवे निगुणे ब्रह्मणि अन्याशाधिक्यमसंभवीत्याह-नत्वित्यादिना / * किञ्च गुणभूयिष्ठत्वमानं ब्रह्मपदार्थः सकलगुणवत्त्वं वा ? आये पृथिव्यादेरपि तदर्थत्वा. पात इत्याह-गुणाधिक्येति / न च गुणाधिक्यस्य अन्यत्र सत्त्वेऽपि पङ्कजादिपदवत् . एकत्र प्रयोगनियमान्नातिप्रसङ्ग इति वाच्यम्। तत्र तामरसत्वादिवत् प्रयोगनियामकधर्माभावात् / न च महत्त्वविशिष्टस्य वाच्यत्वेऽप्ययं दोषस्तुन्त्य इति वाच्यम् / संकोच