________________ उपोद्घातः (तृतीयपादे) विवत्पादे वियदुत्पत्तिसाधकं प्रतिज्ञाऽहानिःअव्यतिरेकात् इति सूत्रम् / अयमस्यार्थः एकविज्ञानेन सर्वविज्ञानं मुण्डके छान्दोग्ये वृहदारण्यके च श्रयते तत्कथमुपपद्यत इति चेत् अव्यतिरेकादिति व्यतिरेकेणाभावात् ब्रह्मव्यतिरेकेण प्रपञ्चाभावात् ब्रह्मज्ञानेन वियदादीनां ज्ञानं जायत एव / तेषां त् त्वं ब्रह्मैवेति ते तत्त्वतो ज्ञाता एव भवतीति समाधोयते / तेन प्रपञ्चमिथ्यात्वं सिद्धम् / यावद्विकारं तु विभागोलो कवत् (2-3-7) / अत्र वियदुत्पत्ति साधकमनुमानमुच्यते वियत् उत्पद्यते विभक्तत्वात् इति प्रयोगः अधिष्ठानसमसत्ताकभेदोहेतुः तेन ब्रह्मणि न व्यभिचारः / अनेन ब्रह्मान्यत् सर्व विकार इत्यागतम् / उत्पद्यमानं च सर्व ब्रह्मण उपादानादेवोत्पद्यते / यतो वाइ मानि भूतानि ज्ञायन्ते इति श्रुतेः। ब्रह्मणः उत्सद्यमानं च ब्रह्मव्यतिरेकेण नास्ति प्रतिज्ञाहानिरव्यतिरेकात् इति न्यायात् तथा च प्रपञ्चमिथ्यात्वसिद्धिः।। अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके 3-3-43 अत्र जीका ईश्वरांश इति निरूप्यते अंशत्वंनावयवत्वं ब्रह्मणः निष्कलत्वश्रुते।। अपितु औपाधिकः अग्नेः विस्फुलिंगवन् / तत्र संमतिः ब्रह्मदासा ब्रह्मदाशा ब्राँवेमे तिवा इत्यादिमन्त्राः आथर्वणिकपिप्पलादशाखायां ब्रह्मसूक्ते / तथा श्वेताश्वतरे त्वं पुमानसि इत्यादिः ब्रह्मैव तत्तद्रूपेण दासकितवस्त्रीपुरुषरूपेण तिष्ठतीत्युक्तेः-अतो जीवब्रह्मैक्यं स्पष्टम्। आभास एव च 2-3-50 आभासः प्रतिबिंबः जीवस्य ब्रह्मप्रतिबिंबत्वमुच्यते विंबप्रतिबिंबयोरभेदात् जीवब्रह्माभेदसिद्धिः / तृतीयः पादः सन्ध्ये सृष्टिराह हि-इदं सूत्रं स्वाप्निकसृष्टेः मायामयत्वनिरूपणार्थ प्रवृत्तं पूर्वपक्षः स्वप्ने सृष्टिः पारमाथिकीति। सिद्धान्तस्तु मायामयीति। मिथ्येत्यर्थः / तेन जीवस्थ शुद्धत्वसिद्धिः स्वप्ने / यत्त वैष्णवः मायामात्र विचित्रमित्यर्थः / तेनेश्वरकर्तृकत्वमित्याहुः। तत्तु माया ह्येषा मया सृष्टा सर्वभूतगुणैर्युक्तं मैवं मां सन्तुमर्हसि इत्यादिभारतवचनविरोधान्न समीचीनम् / कात्स्येनानभिव्यक्तत्वं ईश्वरसृष्टत्वे न हेतुः मिथ्यात्वे नु हेतुर्भवत्येव / अपि च मायामात्रत्वेन सिद्धान्तसत्रस्य पूर्वपक्षसूत्रं अमायामयत्वविषयमेव कथनीयं; जीवसृष्टिवचनं बृहदारण्य कषष्ठगतं नेश्वरसृष्टत्वविरोधि स्वप्नस्य जीवसृष्टत्वेऽपि प्रयोजककर्तृत्वेनेश्वराभ्युपगमात् / ईश्वरस्य सर्वजगत्स्रष्ट्टत्वभंगाभावात् / अन्यथा कुलाला दिसृष्टघटादौ ईश्वरसृष्टत्वबोधनाय सूत्रान्तरारंभस्यावश्यकत्वप्रसंगात् / तस्मात् इदं व्याख्यानं न हृदयंगमम् / मायामयत्वकथनस्य प्रयोजनमस्माकं जीवः असंगीतिनिर्णयो भवति / तेषां तु न किञ्चिद्विशिष्टं प्रयोजनम् / अपि च ईश्वरस्य