________________ सटकाद्वंतदीपिकायाम् रित्यर्थः। न च जीवे ब्रह्मणः अवस्थितेरिति अत्योक्तं युक्तम् प्रकृतशङ्कायाः समाधानाभावात् / परमात्मपरत्वे स एवादौ प्रस्तोतव्यः तदाधारप्रस्तावो न युक्ता / अपि च पूर्वसत्रे उत्क्रमिष्यत एवंभावादित्यौडुलोमिः इति उत्क्रान्तिकाले जीवस्य मोक्षे ब्रह्मभावो भवेत् तदर्थ जीवोपक्रम इत्युक्तम् / तदनन्तरसत्रस्य तु एवंभावेनावस्थितेरिति अज्वो व्याख्या। पूर्वोक्तशंकासमाधानं चेति समञ्जसम् / तदनेनापि सूत्रेण जीवब्रह्माभेद शास्त्रार्था / प्रकृतिश्च प्रतिज्ञावृष्टान्तानुपरोधात् / इदमपि सूत्रमद्वैतं शास्त्रसम्मतमाहअत्र प्रकृतिः उपादानं, ब्रह्म तु प्रकृतिः निमित्तं च / प्रकृतित्वं च विवर्तोपादानत्वं नतु परिणाम्युपादानत्वम्। तथा सति कृत्स्नप्रसक्तिनिरवयवत्वशब्दकोपो वा इति सूत्रोक्तदोषापत्तेः। अतः विवर्तोपादानं ब्रह्म तेनाप्यद्वैतसिद्धिः। एकविज्ञानेन सर्वविज्ञानदृष्टान्तः यथा सोम्यकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्यादित्युक्त्वा मृत्तिकेत्येव सत्यं इत्याह / तेन मृदादीनामसत्यत्वं अधिष्ठानस्य सत्यत्वमुक्तम् / नात्मकृतेः परिणामात् / तदात्मानं स्वयमकुरुत इत्यत्र एकस्यैवात्मनः कर्मत्वं कर्तृत्वं च कथमिति प्रश्नस्योत्तरं परिणामात् इति / परिमाणशब्दः असमसत्ताकान्यथाभावपरः यथा रज्जुः सात्मना परिणत इति / आत्ममः सांख्योक्तपरिणामवादांगीकारे निर्विकारत्वश्रुतिविरोधः कृत्स्नप्रसक्तिनिरवयवत्वशब्दकोपो वा इत्यादितत्रविरोधश्च / अतः विवर्तवाद एवाभिप्रेतः। द्वितीयाध्याये प्रथमःपादः तदनन्यत्वमारंभणशब्दादिभ्यः-इति सूत्रात् प्रपञ्चर' ह्मानन्यत्वं ब्रह्मव्यतिरेकेणाभावः मिथ्यात्वमिति यावत् / तद्वोधनेन च निष्प्रपञ्चमद्वितीयं जीवाभिन्नं ब्रह्मति निर्णीयते। इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः इत्यधिकरणे तत्वमसीति जीवब्रह्माभेद निर्देशात् जीवाभिन्नं ब्रह्म कुतो न स्वस्य हितं करोति अहितं च संसारं सृजति इति पूर्वपक्षे अधिकं तु भेदनिर्देशादिति समाधान; तत्राधिकशब्दा नान्यपरः अपि तु अधिकोपाध्यवच्छिन्नत्वेन स्वातन्त्र्यपरः इत्युक्त्या जीवब्रह्माभेदः सृढीक्रियते / मतान्तरे तत्त्वमस्यादेरन्यार्थत्वात् इतरव्यपदेशाभावात् पूर्वपक्षासंगतिः। कृत्स्नप्रसक्तिनिरवयवत्वशब्दकोपो वा इत्यधिकरणे कृत्स्नस्य ब्रह्मणः प्रपञ्चाकारेण परिणामः उतैकदेशस्य ? नाद्यः प्रपञ्चातिरिक्तब्रह्माभावात् उपासनाविधीनां वैययंप्रसंगः एकदेशपरिणामेब्रह्मणःसावयवत्वप्रसंगः निष्कलं इति श्रुतिविरोधः इति पूर्वपक्षसमाधानं आत्मनि चैवं विचित्राश्च हि इति सूत्रेण / स्वप्नदृशि मिथ्याभूतपदार्थ- . दर्शनवत् ब्रह्मणि प्रपञ्चामथ्यात्वं च स्पष्टमुच्यते /