SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 437 मिति विभागः। ननु प्रमाणानामपि मिथ्यात्वे कथमयं विभाग इति / न / नहि प्रामाण्यस्य तात्विकत्वंस्वरूपाबाधः किन्तु विषयाबाधः तच्चावास्तवस्याप्यद्वैतप्रमाणस्यास्ति / ब्रह्मणोऽबाधितत्वात् / न च कल्पितात् तत्वप्रमितिविरुद्धा कल्पितस्यापि शब्दस्य यथार्थविषयशक्तितात्पर्यज्ञाने तदुपपत्तेः अन्यथा सत्यादपिशब्दात् तत्त्वप्रमित्यनुपपत्तेः / न च यथार्थशक्तिर्वाकथं कल्पितत्वे इति वाच्यम् / कल्पितस्याप्यर्थक्रियानपायात्। पदविशेषत्वेन ह्यर्थविशेषे वृद्धव्यवहारादौ व्युत्पत्तिः / न च तत्र सत्यत्वमपेक्ष्यते तस्य द्रव्यत्वगुणत्वादिवत् अनुपयुक्तत्वात् यथा शक्ति च लक्षणेति क्व तस्य सत्यत्वमुपकरोति / प्रमाणमिथ्यात्वेऽपि विषयसत्त्वोपपत्तिः नन प्रमाणाधीनसत्त्वं प्रमेयं कथं प्रमाणमिथ्यात्वेऽपि सत्यं स्यादिति। तत किं प्रमाणं प्रमेयमुत्पादयति ? तत्सत्तां प्रकाशयतीति चेत; न, प्रकाशस्यानुदिताद्वैतस्य मिथ्यात्वे तद्ग्राहिप्रत्यक्षादीनां कथं प्रामाण्यमित्यत आह–अत एव व्यावहारिकमिति / व्यवहारसमर्थवस्तुबोधकस्वरूपमित्यर्थः / किमुपनिषदामप्येतादृशमेव प्रामाण्यं नेत्याह-अद्वैतेति / उपनिषदामपि द्वैतमध्यपातित्वेन मिथ्यात्वात् कथं तत्त्वावेदकत्वमिति चोदयति-नन्विति / तत्त्वावेदकत्वं नाम अबाधितार्थबोधकत्वं तच्च मिथ्यात्वेऽपि न विरुध्यते। स्वप्नोपलब्धशब्दानामपि प्रमापकत्वदर्शनादित्यभिप्रेत्य परिहरति-न नहीत्यादिना / ननु कल्पितस्य प्रमापकत्वमनुपपन्न बाष्पधूमादेस्तददर्शनात् / स्वप्नशब्दाश्च सत्या एवेति वदन्तं नवीनं प्रत्याह-न च कल्पितादिति / किं शब्दस्य प्रमापकत्वे शक्त्यादिसत्त्वं प्रयोजक सत्यत्वं वा ? उभयमपि वा ? आये न विरोध इत्याह-कल्पितस्यापीति / द्वितीये शक्तितात्पर्याद्यगोचरेऽपि प्रमा स्यात् / न च सा उपपन्नेत्याह-अन्यथेति / न तृतीयः शक्त्यादिमत्त्वे सति सत्त्वाभावापराधेन प्रमाभावादर्शनेन गौरवादिति भावः / शक्त्यादिमत्त्वमेव सत्त्वाभावेऽनुपपन्नमित्याशङक्याऽन्यथोपपत्तिमाह-न च यथार्थेति / व्युत्पत्तिसमये सत्त्वेनैव शब्दस्य शक्तिमत्त्वग्रहणान् / तदभावे कथं शक्तिमत्त्वमित्याशङ्क्यासिद्धो हेतुरित्याह-पदविशेषेति / नन्वेवमपि वेदान्तानां सत्त्वाभावे लक्षकत्वानुपपत्ति रिति नेत्याह-यथाशक्तिति / लक्षणायाः शवयसंबन्धादिमात्रापेक्षत्वादिनि भावः। मानाधीना मेयसिद्धिरित्यभ्युपगमात् मानस्य सत्त्वाभावे ब्रह्मणोऽपि सत्त्वं न सिद्धयेदिति चोदयति-नन्विति / किं सिद्धिशभ्देनोत्पत्तिविवक्षिता, ज्ञप्तिर्वा ? आद्यस्त्वसङ्गत इत्याह-तत्किमिति / द्वितीयमुद्भावयति-तत्सत्तामिति / किमत्र प्रकाशपदेन चित्प्रकाशः कथ्यते ? वृत्तिर्वा ? आये तस्य मानजन्यत्वमयुक्तमित्याह-न प्रकाशस्येति / द्वितीयं शङ्कते-वृत्तीति / वृत्तेमिथ्यात्वात् प्रमाणसत्यतां विना नानुपपत्तिरित्याह--
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy