________________ तृतीयः परिच्छेदः 423 नवमिति तस्य सर्वोपलभः / न चैतावता घटादेः पारमार्थिकता पदार्थस्वभाववै. चित्र्यस्य परमार्थ इव कल्पितेऽप्यदोषात् अविद्याया विचित्रशक्तित्वात / ___ अथवा यदज्ञानोपादानं यत्तत्तस्यवोपलभ्भाहमिति पूर्वोक्तयुक्तनिश्चीयते / घटादिकं तु यावदुपलब्ध्रज्ञानसमुदायजमिति सर्वदृश्यम् / सर्वादृष्टानामिव सर्वाज्ञानानामपि मिलित्वा हेतुत्वोपपत्तेः। एकाज्ञानाशे तु प्रपंचान्तरमेव / रजतादेर्दोषविशेषजन्यत्वादविद्याविशेषजन्यत्वाद्वा नार्थक्रिया / अज्ञाननिहत्तौ प्रकार निर्णय घटादिक अपि दृष्टिसमामयमात्रमिति रहस्यम् / तस्मादयं संक्षेपःइन्द्रियाच्छुक्तिकादाविरमाकारवृत्तिर्जायते तस्यां वृत्तौ प्रतिफलितं चैतन्यमिदमंशावच्छिन्नचैतन्यविषयमज्ञानं निवर्तयति। न तु विशेषांशाज्ञानं वृत्तस्तदाकारत्वाभावात् / अन्याकारवृत्याऽन्यातान निवृत्तावति प्रसंगात् / भ्रमानुपपत्तेश्च विशेषाज्ञानं वर्णितकारणसध्रीचीनं तत्राभिव्यक्ते साक्षिणि रजताद्याकारेण विवर्तते। हित्यमनन्यवेद्यत्वं चेत्यादिवैषम्यं तद्वन्मिथ्यात्वेऽयवान्तरभेदोपपत्तिरित्याह-न चैतावतेत्यादिना / अनेकजीववादेऽपि रजतादेरनन्यवेद्यत्वं घटादेस्तु साधारणत्वं साधयति-- अथवेत्यादिना / पूर्वोक्तयुक्तेरिति। उत्पादके सत्येवोपलम्भादित्यादियुक्तरित्यर्थः / एकैकस्यैवानानस्थ वियदादिपरिणामे कथं तेषां संभूपकारित्वमित्याशंक्य प्रतिपुरुषं प्रपञ्चभेदे मानाभावात् परमते पृथिव्यादिहेत्वदृष्टानामिव संभूय कारित्वोपपत्तिरित्याहसर्वादृष्टाना मिति / तयकस्य तत्त्वापरोक्षेण तदज्ञाननाशे तत्कार्यप्रपञ्चस्यापि नाशात् सर्वमुक्त्यापात इत्याशंक्याह-एकेति / एकाज्ञाननाशेन तदधीनसाधारणप्रपञ्चनाशेऽपि खण्डपटवत्तदेवतराज्ञानः प्रपञ्चान्तरभुत्पद्यते।। न च तेन मुक्तस्यापि बन्धप्रसङ्गः। तदज्ञानमात्रजन्यस्य तद्भोगोपाधेरन्तः करणस्य नाशादेव तदयोगादिति भावः। शुक्तिरजतादेरर्थक्रियायोग्यत्वे प्रयोजकमाहरजतादेरिति / अविद्याविशेषेति / अवस्थाज्ञानजन्यत्वादित्यर्थः / वस्तुतो रजतादेर्घटादेश्च न किञ्चिद् वैषम्यमस्ति / न चैवं सति लौकिकर्वेदिकव्यवहारानुपपत्तिरिति वाच्यम् / स्वप्नवदेव सर्वस्याप्युपपत्तेः। तथा च श्रुति: 'त्रय आवसथास्त्रयः स्वप्नाः' इति "ईक्षेत विभ्रममिदं मनसो विलासं दृष्टं विनष्टमतिलोल. मलातचक्रप्" इत्याद्याः स्मृतयश्चानुगुणा इत्यभिप्रेत्याह-घटादिकम ीति / इयता प्रबन्धेनोपपादितां रजतोदयप्रक्रियां बुद्धिसौकर्याय संक्षेपेणोपपादयति-तस्मादमि ते / विशेषाशाज्ञा मिति / शुक्तित्वविशिष्टावच्छिन्नचैतन्याज्ञानमित्यर्थः / भ्रमा उपपत्तेश्चेति उपादानाभावाहित्यर्थः / दोषसामान्य स्फुरणसंस्कारा वणितकारगशब्दार्थः / तत्र वृतिसंमृष्टे इदमंगे वृत्ति विनेव प्रकाश्यत इति संबन्धः। वत्त्यभावे कथं तत्प्रकाश इति