________________ द्वितीयः परिच्छेदः 23 हमनुभवविरोधपरिहाराय स एवान्तःकरणेन कल्पिततादात्म्यात् भुङ्क्त इति न भोक्तत्वस्य चैतन्यसामानाधिकरण्यधीविरोध इति भेदानुवादपूर्वकं तस्य तदर्शयतीति अन्यशेषोऽयमनुवादः / अथ वा जीवानुवादपूर्वकं केवलचंतन्यात्मनो भोक्तत्वाभावे दर्शिते अभोक्तजीवस्येश्वरभेदे प्रमाणाभावान्नास्ति जीवेशभेद इति तन्नि धायव चायमनुवादः तथा चाहमनुभवसिद्ध जीवस्य न स्वरूपं, किं त्वाविद्यकम् / जीवस्वरूपं तु तद्विलक्षणमशनायादिधर्मरहितं चैतन्यमात्रमिति न ब्रह्मणः सर्वात्मत्वविरोध इति तात्पर्यम् / एतेन संसारानाधारचैतन्यस्य ब्रह्माभेदे न विवादः। आत्मनो ऽभोक्तत्वे बन्धमोक्षयोवैयधिकरण्यं चेति परास्तम्। ब्रह्मस्वरूपेण नित्यमुक्तस्यात्मन एव बुद्धितादात्म्येन संसारित्वात् / न चात्र निषेधायानुवादे लिङ्गाभावः। तयोरिति तच्छब्दस्योपस्थितपरामर्शित्वात् / तेन यच्छब्दस्याप्यनुमातुं शक्यत्वात् / अनश्ननिति निषेधाच्च। एतेनास्य निषेधशेषानुवादत्वे सत्त्वादिवाक्यमप्यसद्वा इदमग्न आसीदिति निषेधशेषानुवादः स्यादिति परास्तम् / ब्रह्मविषयसत्त्वादिवाक्यस्य प्रपंचासत्त्वविषयवाक्यस्य च भिन्नविषयतया शेषशेषिभावायोगात् / सत्यादिवाक्यप्रमेयस्य त्रिविधपरिच्छेदरहितत्रिकालाबाध्यसत्त्वस्यान्यतोऽप्रसिद्धश्च // ___ एवमपि तयोरन्यः पिप्पलं स्वाद्वत्तीत्येतद् व्यर्थमित्याशङ्क्याहंकारानात्मवादे चोक्तं तदुपयोगं पुनः स्मारयति--तत्र च जीवस्येति / तस्य वस्तुतो भोगरहितजीवस्योपहितरूपेण भोगं दर्शयतीति भेदानुवादो भोगनिषेधशेष एवेत्यर्थः / भेदनिषेधायैव भेदानवाद इति पक्षान्तरमाह--अथ बेते / अस्मिन्नपि पक्षे उपक्रान्तब्रह्मसर्वात्मत्वेनापेक्षितमेव तेन समर्थ्यत इत्याह-तथा चेति / ... जीवस्याभोक्तृत्वे यद्बाधकमुक्तं तदप्यपास्तमित्याह-एतेनेति / एतच्छब्दार्थमाहब्रह्मति / आरोपितसंसाराश्रयस्यैव वस्तुतोऽशनायाद्यतीतस्वरूपेण ब्रह्माभेदाभिधानात् तस्यैव मुक्त्यन्वयित्वाच्च नोक्तदोष इति भावः। यत्तन्नेत्यादिनिषेधज्ञापकं नास्तीति तत्राह--न चात्रेति / नञोऽपि श्रवणमस्तीत्याह-अनश्नन्निति / ... परोक्तप्रतिबन्दीमपि वक्ष्यमाणहेतुना दूषयति-एतेनेति / असहा इति वाक्येन पूर्वसृष्टिपूर्वकाले प्रपञ्चसत्ताया निषिध्यमानत्वात्सत्त्यादिवाक्यस्य च ब्रह्मसत्ताभिधायकस्य तदनुवादकत्वाभावेन तनिषेधशेषत्वायोगादित्याह-ब्रह्मविषयेति / यदप्युक्तम् सर्वप्रत्ययवेद्यत्वाद् ब्रह्मसत्तायाः सत्यादिवाक्यमनुवादकमिति तदप्ययुक्तमित्याह--सत्त्यादीति / असद्वा इदमिति वाक्यस्य सत्तानिषेधकत्वमभ्युपेत्येदमुक्तम् / इदानीं तदेव नेत्याह-असति /