________________ तृतीयः परिच्छेदः 275 न च साक्षात्कारान्तरं कल्प्यम्, वैयर्थ्यात् / तस्यापि प्रथमसाक्षात्कारवद. पूर्वाजन्यत्वाच्च / न च चित्तशुद्धिरेव तदपूर्वफलम् / 'ज्ञानप्रसादेन विशुद्धसत्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः' इति श्रुत्या शुद्धरपि साक्षात्कारहेतुत्वश्रवणेन तत्पूर्व तस्याः सिद्धत्वात् / न च तत्रापूर्वमेव नेति वाच्यम् विधौ तवभावायोगात् / अविद्यानिवृत्तिकामस्य विधि विनापि ज्ञानोन्मुखत्वेनापूर्व विना विधिवेयर्थ्याच्च / तस्मान्न ज्ञाने विधिरिति / मैवं / विधिसामर्थ्यादविद्यानिवृत्तावेवापूर्वस्योपयोग. कल्पनात् / केचित्तु न साक्षात्कारादपूर्व जन्यते साक्षादेव तस्य मुक्तिहेतुत्वसंभवात् / दृष्टद्वाराभावे सति कालान्तरभाविफलजनकतया विहितस्यैवापूर्वजनकत्वादित्याहुः / साक्षत्कारविधिसमर्थनम् / वस्तुतस्तु न कुत्राप्यपूर्वमिति तव सिद्धान्तः / न च विधीयमानत्वे साक्षाकारस्य न ततोऽविद्यानिवृत्तिः स्यादिति वाच्यम्, तथापि प्रमाणज्ञानप्रयुक्ताविद्यानिवृत्तावविरोधात् / न चालौकिकसाक्षात्कारस्याप्रसिद्धत्वान्न तद्विधानम् / तस्य तत्रोपयोग इत्याह-तस्यापीति / तृतीयं दषयति-न च चित्तेति / क्रियेव विधीयमानाऽपूर्वहेतुर्न ज्ञानमित्यत आह-न च तत्रेति / अपूर्वाभावेऽप्यप्रवृत्तप्रवर्तनार्थमेव विधिः किं न स्यादित्यत आह-अविद्येति / विधिजन्यापूर्वोपयोगाभावान्न ज्ञाने विधिरित्युपसंहरति -तस्मादिति / ज्ञानजन्यापूर्वमङ्गीकृत्य तस्यापि ज्ञानवदविद्यानिवृत्तिहेतुत्वं विध्यनुपपत्तिरूपौपादानिकप्रमाणबलात् कल्पनीयमिति परिहरतिमैवमिति / दृष्टद्वारेणेवा विद्यानिवृत्तिसंभवात् ज्ञानजन्यापूर्वमेव नेति मतान्तरमाहकेचित्त्विति / विमतमपूर्वजनकं विहितत्वादाग्नेयादिवदित्याशङ्कय तत्र दृष्टद्वाराभाव उपाधिरित्यभिप्रेत्याह-दृष्टद्वारेति / सर्वज्ञेश्वरस्यैव कर्मानुरूपफलदातृत्वान्न कस्याप्य - पूर्वजनकतेति सिद्धान्तिनोऽपि संमतत्वाद् विधेवज्ञानादपूर्वाभावो न दोषायेत्याहवस्तुत इति / ज्ञानस्य विधेयत्वे योषिदादावग्निज्ञानवददृष्टद्वाराप्यविद्यानिवर्तकज्ञानं न स्यादित्याशक्य योषिदादावग्निज्ञानस्यायथार्थत्वान्नाविद्यानिवर्तकत्वं ब्रह्मज्ञानस्य तु विधेयत्वेऽप्यग्नावग्निज्ञानवद् यथार्थत्वादविद्यानिवर्तकतोपपत्तिरित्याह-न चेत्यादिना। . किमत्राशनायाद्यतीतात्मसाक्षात्कारे विधिस्तद्वदात्मसाक्षात्कारे वा ? नाद्यः, तस्याप्रसिद्धत्वेनाकाश नुष्टिहननवदविधेयत्वात् / न द्वितियः; अशनायादिमदात्मज्ञाने सत्यप्यविद्याविवृत्तेरभावात् तस्य विधिविनापि सिद्धत्वाच्चेति चोद्यमयुक्तमित्याह-- न चालौकिकेति / अलौकिकात्मसाक्षात्कारस्याप्रसिद्धत्वम्, किमनुत्पन्नत्वमज्ञातत्वं वा।