SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ 274 सटीकाद्वैतदीपिकायाम् आपातत्वं हि न संशयविपर्ययान्यरत्वम् अपौरुषेयवेदान्निष्पन्नस्य तदयोगात / अपौरुषेयवेदादपि शक्तिभ्रमाद् भ्रमो युज्यत इति चेत्, न; ब्रह्मणि सत्यादिज्ञानस्याभ्रमत्वात् / ज्ञानविधिनापि तदनिवृत्तेः विचारेण तन्निवृत्तेश्च / नापि सामान्यविषयत्वमापातत्वम् / ब्रह्मणि तदभावात् / तस्मादादावेवोत्पन्नं ज्ञानं निश्चयरूपमिति न तद्विधेयम् / माक्षात्कारस्य विधेयत्वनिरासः / अथ साक्षात्कारो विधेय इति / तन्न, निरतिशयसुखात्मकब्रह्मसाक्षात्कारस्य फलतया स्वर्गादिवदविधेयत्वादिति / मैवं, साक्षात्कारस्याविद्यानिवृत्तिसाधनतया फलत्वात्। ननु वेदान्तानां दर्शनविधिपरत्वे ब्रह्मस्वरूपासिद्धिः स्यात् प्रत्यक्षादेरिव शब्दस्यापि तत्राभावादिति चेत, न; सत्यादिवाक्यैरेव विधिविषयब्रह्मणो विध्याकाक्षया प्रतिपादनात् / ननु साक्षात्कारस्य विधेयत्वे पत्न्यवेक्षणादिवत् तस्मादपूर्व क्क्तव्यं तस्य क्वोपयोगः / न तावन्नोक्षे तस्य ब्रह्मावाप्तिलक्षणस्याविद्यानिवृत्तिलक्षणस्य वा सिद्धस्वभावतया ज्ञानेकसाध्यताऽपूर्वापाध्यत्वात् / नापि तत्साधने, साक्षात्कारातिरिक्तमोक्षसाधनाभावात् / तस्य चापूर्वजनकतया त्वयाभ्युपगतत्वात् / यत्वं वा ? नाद्यः, अपौरुषेयवेदे दोषाभावेन संशयादिजनकत्वायोगादित्याह-आतत्वमित / स्वतो निर्दोषोऽपि वेदः प्रमातृगतदोषवशात् संशयादिजनक इति शङ्कते-- अपौरुषेयेति / प्राथमिकज्ञानस्य बाधकाभावेन भ्रमत्वमेव नेति परिहरति-न ब्रह्मणीति / किञ्च शक्तिभ्रमे विचारान्नष्टे सति शब्दादेव निर्णयसंभवाद् विधिर्व्यर्थ इत्यभिप्रेत्याह-ज्ञानविधिन त / द्वितीयं दूषयति--नापीति / प्राथ मकज्ञानस्यापातरूपत्वनिरा. करणफलमाह--तस्मादिात / ___ आद्यद्वितीय शङ्कते-अथेति / ब्रह्मसाक्षात्कारस्य निरतिशयसुखभोगतयोद्देश्यत्वाद् विधेयत्वमयुक्तमिति दूषयति-तन्नेति | वृत्तिरूपसाक्षात्कारस्याशुविनाशिनोऽफलत्वेनाविद्यानिवृत्तिरूपफलसाधनतया तद्विधानं युक्तमिति परिहरति-मैवमिति / वेदान्तानां विधिपरत्वे तत्रैव प्रामाण्यमिति ब्रह्माप्रामाणिकत्वादसत् तथाऽपाततश्च तस्य कुतो विधिशेषतेत्यभिप्रेत्य शङ्कते–नन्विति / निविषयज्ञानविध्ययोगेन विध्याकाक्षितब्रह्मणोऽप्यवान्तरतात्पर्येण वेदान्ता एव मानमित्यभिप्रेत्य परिहरति-न सत्यादीति / अविधेयस्यापि विधेयत्वेन तज्जन्यमपूर्व वाच्यम्, तस्य च स्वतोऽपुरुषार्थत्वात् क्वचिदुपयोगोऽपि वाच्यः। स च दुनिरूप इति शङ्कते-नन्विति / किं तदपूर्वस्य मोक्ष उपयोगः तत्साधने वा चित्तशुद्धौ वा ?, नाद्यः, इत्याहन तावदिति / ब्रह्मावाप्तेरविद्यानिवृत्तेश्चापूर्वसाध्यत्वे यथाक्रमं सिद्धस्वभावतयेत्यादि हेतुद्वयम् / द्वितीयं दूषयति - नापीति / अपूर्वस्योपयोगाय साक्षात्कारान्तरं कल्प्यमित्यत आह-न चेति / साक्षात्कारान्तरस्यापि प्रथमसाक्षात्कारवदपूर्व विनाऽप्युत्पत्तिसंभवान्न
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy