________________ 22 सटीकाद्वैतदीपिकायाम् मारम्य तस्य सर्वदा गुणत्वेनैवाबस्थानात् / स्वर्गस्तु स्वशेषनियोगनिष्पत्तये स्वामीव कदाचित् गुणभावनापन्न इव प्रतीयत इति गर्भदासन्यायेनापि स्वर्गशेष एव नियोगः तस्मात् "स्वात्मसिद्धयनुकूलस्य नियोगस्य प्रसिद्धये। विशेषणमपि स्वर्गः प्रधानं पुरुषस्य नः" / एवं कृतिप्राधान्यमपि स्वर्गस्यैव तस्यैव स्वरूपसुन्दरस्य कृत्युद्देश्यत्वात्। यत्तु फलापूर्वयोरेकलोलीभावात, फलास्यापूर्ववृद्धिरूपत्वाद् वा नियोगः प्राधान्यपरिपालनम्, न तत्परीक्षाक्षममित्युपेक्ष्यते प्रत्ययार्थत्वमपि तस्य विप्रतिपन्नम् एतेन निषेधवाक्यस्याप्यपूर्वार्थत्वं निरस्तम् / तथा सति निषेधमनुतिष्ठतः प्रत्यवायासिद्धिप्रसङ्गाच्च / तस्मान्न क्रियातिरिक्त त्वदभिमतं कार्यमस्तीति कुतस्तस्य वेदार्थत्वम्। तथा च विधिवाक्यस्यास्तु क्रियाकार्य श्रेयःसाधनत्वं वाऽर्थः / ब्रह्म वाक्ये तु विध्यश्रवणात् स्वप्रधानं बलंव तत्प्रतिपाद्यमिति सिद्धम् / ब्रह्मणः विधिशेषत्वन वेदार्थत्वमता वादः __ अत्र केचिदाहः-भवतु कार्य श्रेयःसाधनत्वं वा लिङाद्यर्थः सर्वथा एवे / अतःशब्दार्थमेवाह-विमर्शति / सर्वथा गुणत्वेनावगतनियोगस्य स्वामिवत्प्राधान्ये मानाभावान्न तन्न्यायेन प्राधान्यमित्यर्थः / वस्तुत एतन्न्यायेनापि स्वर्ग एव प्रधानमित्याह-स्वर्गस्त्विति / गुणभावमिति / नियोज्यविशेषणतयेत्यर्थः। उत्तार्थ श्लोकेन संगृह्णन्निगमयति-तस्मादिति / पुरुषस्य विशेष णमपीति योजना / एवं स्वर्गस्य कार्य प्रति प्राधान्य नुपपाद्य कृति प्रत्यपि तदाह-एवमिति / फलापूर्वयारत्यन्तभेदाभावात् फलप्राधान्यमिति केषांञ्चित् समाधानं दूषयति-यत्त्विति / अपूर्वस्य फलसाधनत्वात् साध्यसाधनयोरभेदायोगाद् भेदाभेदस्य चाप्रामाणिकत्वान्न फलाभेदेन नियोगप्राधान्योपपत्तिरिति भावः। ___ यदुक्तं प्रत्ययार्थत्वात् कार्य प्रधानमिति तदप्ययुक्तम् / इष्टसाधनत्वस्येव लिङा. द्यर्थत्वादित्यभिप्रेत्याह-प्रत्ययेति / गुरुमतानुसारिभिन सुरां पिबेत्' इत्यादिनिषेध वाक्यानां सुरापानादिविरुद्धकार्यपरत्वमास्थितम्, तदप्ययुक्तमित्याह-एतेनेति / पराभिमतापूर्वे लिङादेव्युत्पत्त्यभावेनेत्यर्थः। किञ्च निषेधवाक्यानामपि कार्यान्तरपरत्वे निषिद्धानुष्ठानस्यानिष्टसाधनत्वे मानाभावात्, ततः प्रत्यवायो न स्यादित्याह-तथासतीति / विधिवाक्यादेः पराभिमतकार्यपरत्वनिराकरणफलमाह -तस्मादिति / पराभिमतापूर्वाभावेऽपि विधिवाक्यानामिव वेदान्तानामपि क्रियारूपकार्यतदन्तर्गतेष्टसाधनत्वं वाऽर्थोऽस्त्वित्याशङ्क्याह-तथाचेति / ब्रह्मणो वेदार्थत्वेऽपि न स्वप्रधानतया तदर्थत्वं किन्तु विधिशेषतयेत्येकदेशिमतं दूषयितुमनुवदति-अत्रेति / निगुणब्रह्मण उपासनाविध्यनुपयोगित्वेन तच्छेषत्वायोगात्