________________ 192 सटीकाद्वैतदीपिकायाम् प्रत्यक्षमेव साक्ष्यात्मकं तत्र प्रमाणं, नानुमानादि / तेन विनाऽपि तन्निवृत्तः / अभावव्यावृत्तिरपि यद्यप्युपपत्तिसहितप्रत्येक्षण विषयीक्रियते तथापि प्रत्यक्षेण सहकार्युपपच्यप्रतीतिदशायामज्ञानमात्रे सा निवर्त्तते न तु तद्भावत्वे इति प्रत्यक्षं तत्र न मानं कि त्वनुमानादि / 'तम आसीत्' इति चाज्ञानस्य स्वाधिकरणप्रतियोगिकसंबन्धाश्रयत्वमात्रमुच्यते न त्वासीदिति सत्वमुच्यत इति न तस्य प्रामाणिकत्वनिराकरणमनिष्टम् / नो सदासीत्" इति तस्य सत्त्वनिषेधात् / तस्मात्साक्षिमात्रगम्यमज्ञानमिति / एतेनेदं परोक्तं निरस्तम् / अविद्यायाः साक्षिभास्यत्वे मोक्षेऽपि सा प्रतीयात् / तच्छरीरे साक्षिणि सति तदनिवत्तेरिति / ज्ञानातिरिक्तानिर्वचनीयज्ञेयाभ्युपगमादित्युक्तत्वात् / न चैवं साक्षिणोऽज्ञानावृतत्वात्कथं ततस्दवगम इति वाच्यम् / राहोरिवावृतेनापि प्रकाश्यत्वादिति केचित् / चैतन्यमात्रमनावृतमिति च वक्ष्यते। ण्यमेव नेत्याह--अज्ञानस्येति / तेनेति / अनुमानादिकं विनवाज्ञानासत्त्वशङ्कानिवृत्तंरित्यर्थः। एवं तद्यज्ञानस्याभावव्यावृत्तिरवि तर्कोपनीतप्रत्यक्षेण निश्चेतुं शक्यत इति तत्राप्यनमानादेः प्रामाण्यं न स्यादित्याशयोपपत्त्यननुसन्धानदशायां सत्यपि प्रत्यक्षेऽज्ञान इव तद्भावत्वेऽसत्त्वशङ्काऽनिवृत्तेर्न तत्तत्र मानं, किं त्वनुमानाद्येवेत्याहअभावेति / नन् ‘तम आसीत्" इति श्रुत्यंवाज्ञानसत्त्वस्योक्तत्वात् सतश्च ब्रह्मवत्प्रामाणिकत्वनियमात् तस्याप्रामाणिकत्वमयुक्तमित्याशक्य सृष्टिपूर्वकाले विद्यमानत्वमात्रं तमसः श्रुत्योच्यते, न तु सत्त्वम् / इतरथा “नोसदासीत्" इति पूर्ववाक्यविरोधादित्याह-तम इति / तहि साक्षिप्रमाणगम्यत्वादेवाज्ञानस्य प्रामाणिकत्वमक्षतमित्याशङक्य साक्षिणः क्लुप्तकारणाजन्यस्य कुत्रापि प्रमाणत्बायोगादज्ञानासत्त्वशङ्कानिबर्तकत्वमात्रेणोपचारात् तत्र प्रमाणत्वोक्तिरित्यभिप्रेत्योपसंहरति--तस्मादिति / अज्ञानस्य साक्षिमात्रभास्यत्वे नवीनोक्तं चोद्यमनूद्य निराकरोति--एतेनेति / अज्ञानस्य साक्षिभास्यत्वमप्यनुपपन्नं तस्याज्ञानेनावृतत्वात् आवृतस्यापि भासकत्वेऽतिप्रसङ्गादित्याशङ्क्यावतस्यावारकातिरिक्तभासकत्वाभावेऽप्यावारकभाकत्वस्य लोके दर्शनान्मैवमिति केषांचित्परिहारमाह-न चैवमित्यादिन / चिदानन्दात्मके ब्रह्मणि कल्पितानादिभेदेन चैतन्यांशोऽनावतः निरतिशयानन्दांश एवावृत इति अनावृतचैतन्यात्मकसाक्षिणाऽज्ञानावभासोपपत्तिरिति मतान्तरमाह--चैतन्ये त / अज्ञानाश्रयस्यापि विप्रतिपन्नत्वात् तन्निरूपयितुमुपक्रमते-तच्चेति / तर्हि जीवस्याकल्पितत्वात् जीवनिष्ठमेवाज्ञानमित्याशङ्क्याह-ब्रह्मविषयमिति /