________________ द्वितीयः परिच्छेदः 171 स्मृतौ च मायाविद्ययोर्भेदभ्रमनिरासाय सामानाधिकरण्याच्च / भगवता नारदेन-- "नासद्रूपा न सद्रपा माया नैवोभयात्मिका / अनिर्वाच्या ततो ज्ञेया भेदबुद्धिप्रदायिनी // मायवाज्ञानशब्देन शब्द्यते मुनिसत्तम"। इत्यादिना मायाया अनिर्वाच्यत्वाज्ञानशब्दवाच्यत्वप्रतिपादनाच्च / तस्मात् ज्ञाननिवाऽनिर्वाच्ये च प्रयुज्यमानो मायाशब्दोऽज्ञानस्यैव वाचकः। एवं-- "दैवी ोषा गुणमयी मम माया दुरत्यया"। इति स्मृतौ गुणमयत्त्वेनावगता माया "प्रकृतेः क्रियमाणानि गुणः कर्माणि इति स्मृतौ च प्रकृतिर्गुणात्मिकवावगम्यते / सा चोपादानमज्ञानं न ततोऽतिरिक्ता। श्रुत्यवगतब्रह्मोपादानत्ववादे स्वतन्त्रायाः प्रकृतेरसत्त्वात् / न च गुणमयत्वान्मायैव प्रकृतिरज्ञानं तु न गुणमयमिति वाच्यम् / उपादानाज्ञानस्यापि गुणमयत्वात्। एवमनादिमायया सुप्त इति स्वरूपावारकत्वं मायायां श्रूयते / अज्ञानं चावारकमित्यनुभवे स्मृतौ च प्रसिद्धम् / अत आवारकविषयो मायाशब्दोऽप्यज्ञानविषय एव / अन्यथा पदार्थद्वयस्यावारकत्वकल्पने गौरवात् / एवं मिथ्या इत्याह-तरतीति / बृहन्नारदीये नारदवचनमप्युक्तार्थे प्रमाणयति-भगवतेति / मायाविद्ययोरभेदाच्छ्र त्यादिषु मायाशब्दो भावरूपाज्ञान एव मानमिति परमप्रकृतमुपसंहरति-तस्मादिति / गुणमयत्वरूपलक्षणैक्यादपि मायाविद्ययोरभेद इत्याह एवमिति / ननु स्मृतौ प्रकृतेरेव गुणात्मकत्वमवगम्यते न त्वज्ञानस्येत्यत आह--सा चेति / सांख्याभिमतप्रधानमेव सा किं न स्यादित्यत आह--श्रुत्यवगतेति / “यतो वा इमानि भूतानि जायन्ते" "अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा" इत्यादिश्रुतिस्मृतिषु ब्रह्मणो जगदुपादानत्वोक्तेः स्वतन्त्रप्रकृत्यङ्गीकारे तदसंभवात्तस्याः श्रुत्यादिबाह्यत्वेनासत्त्वमेवेत्यर्थः। पराभिमतप्रधानस्यासत्त्वेऽप्यज्ञानं न प्रकृतिः तस्य गुणात्मकत्वाभावात् किं तु गुणात्मकत्वाविशेषान्मायव सेत्याशङ्कयाह-न चेति / अज्ञानकार्येषु गुणकार्यस्य वैचित्र्यस्य दर्शनात्तदुपादानाज्ञानस्य गुणात्मकत्वमावश्यकमित्याह-उपादानेति / मायाविद्ययोः स्वरूपावरकत्वसाम्यादप्यभेद इत्याह-एवमिति / स्मृतांविति / “अज्ञानेनावृतं ज्ञानम्" इति स्मृतावित्यर्थः / गौरवादित्युपलक्षणं स्वप्रकाशस्वर पावरकत्वस्यानिर्वचनीयाज्ञानादन्यस्यासंभवाच्चेति द्रष्टव्यम् / अविद्याया एव मिथ्यापरिणामित्वान्मायाशब्दस्यापि तत्रैव प्रयोगात् सैव तदर्थ इत्याह--एवमिति /