________________ 168 सटीकाद्वैतदीपिकायाम् त्वात , इच्छाजत्यस्यैव विधेयत्वात् / साक्षात्कारविधि विनापि श्रवणादौ प्रवत्तस्य भञानस्य तृप्तिरिव साक्षात्कारोपपत्तेश्च ब्रह्मज्ञानं न विधेयम् / तहि ज्ञानमेव सत्यमज्ञानं निवर्तयत्विति चेत् न / तत्रापि भेदविशिष्टब्रह्मज्ञानं नाद्वितीयब्रह्मणो जीवैक्याज्ञानं निवर्तयति। भिन्नविषयत्वात् / नाप्यभेदभ्रमादक्याज्ञाननिवृत्तिः / भ्रमस्याज्ञानानिवर्तकत्वात्, अभेदाज्ञानस्य तद्विरुद्धभेदभ्रमजनकत्वेनाभेदज्ञानस्य भ्रमत्वायोगाच्च / अतोऽद्वितीयब्रह्मजीवाभेदप्रमैवाविद्यानिवर्तिका वाच्या। न च भेदादेस्तिवत्वे तदभेदज्ञानस्य तन्निवृत्तितः पूर्वमुत्पन्नस्य प्रमात्वं संभवति / तदा तद्विषयस्य तत्रापहृतत्वात् / न चाविद्यायाः सत्यत्वे तन्निमित्तो भेदादिरसत्योभवति / ततश्च ब्रह्माज्ञानस्य तज्ज्ञानान्निवय॑त्वसिद्धये मिथ्यात्वं वर्णनीयम् / एवं लोकेऽपि शुक्तिज्ञानप्रमात्वाय रजतस्य मिथ्यात्वं कल्पनीयमिति तदेव दृष्टमज्ञानादेः कल्पनीयम् / एतदेवाभिप्रेत्योक्तम्-"श्रुतोपपत्त्यर्थमेव बन्धस्याविद्यात्मकत्वं वर्णनीयम्" इति / एतेन ज्ञाननिवर्त्यत्वे लाघवादज्ञानत्वं प्रयोजकं न तु सदसद्विलक्षणत्वमिति नवी र्थादर्थो न स चोदनार्थ' इति न्यायेन श्रवणादिविधिसामर्थ्यादेवापरोक्षज्ञानसिद्धर्न तत्र विधिरित्याह-साक्षात्कारेति / विध्यभावेनादृष्टाभावेऽपि साक्षादेव सत्यमज्ञानं निवर्तयविति शङ्कने तहीति / किं सविशेषब्रह्मज्ञानं सत्याज्ञाननिवर्तक नुत निविशेषब्रह्मणो वा जीवाभेदज्ञानम् ? / नाद्यः। ज्ञानस्य स्वसमानविषयाज्ञाननिवर्तकत्वेन सविशेषब्रह्माविषयकमूलाज्ञाननिवर्तकत्वायोगादित्याह-न तत्रापीति / द्वितीयेऽपि किं तज्ज्ञानं भ्रमः उत प्रमा?। आद्यं दूषयति-नापीति / अज्ञानस्य स्वविषयभ्रमजनकत्वात् स्वसमानविषयाभेदज्ञानस्याजन्यत्वासंभवाद् भ्रमत्वमेवानुपपन्नमित्याह-अभेदेति / द्वितीयं परिशेषयति-अत इति / ततः किमित्यत आह-न चेति / अज्ञानतत्कार्यनिवृत्तेः पूर्व निष्प्रपञ्चब्रह्मात्माभेदज्ञानस्य तन्मिथ्यात्वं विना प्रमात्वानुपपत्तेः तत्प्रमात्वं विना ततस्तन्निवृत्त्यनुपपत्तेस्तदर्थमेवाज्ञानादेमिथ्यात्वमावश्यकमित्यर्थः। एवं तावदज्ञानस्य स्वप्रकाशब्रह्मविषयत्वाय तन्निवर्त्तकज्ञानप्रमात्वाय च मिथ्यात्वमावश्यकमित्युक्तम्, इदानीं विमतं मिथ्या ज्ञानकनिवर्त्यत्वात् शुक्तिरूप्यवत् / न च साधनवैकल्यम् / स्वतन्त्रान्वयव्यतिरेकाभ्यां रजतनिवृत्तेः शुक्तिप्रमाजन्यत्वात् / नापि साध्यवैकल्यम्। शुक्तितादात्म्यापन्नरजतस्यासत्यत्वे तन्निवृत्तेः पूर्वं केवलशुक्तिप्रमाऽसंभवेन ततस्तन्निवृत्त्ययोगात् / न च हेतौ विशेषणवैयर्थ्यम् उक्तप्रकारेण मिथ्यात्वाभावे ज्ञाननिवर्त्यत्वानुपपत्तिरिति बाधकप्रदर्शनार्थत्वादित्यभिप्रेत्याह-एवमिति / उक्तन्यायमभिप्रेत्यैबाचार्यैरपि ज्ञाननिवर्त्यबन्धस्य मिथ्यात्वमुक्तमित्याह-एतदेवेति / उक्तप्रकारेण ज्ञाननिवर्त्यतयैव मिथ्यात्वस्यावश्यकत्वादे