________________ सटीकाद्वैतदीपिकायाम् अनुभवस्य एकत्यव्यवस्थापन स चानुभव एक एव भेदे प्रमाणाभावातू। अभेदे च प्रत्यक्षानुमितानुभवेऽध्वनुभवानुगतबुडेर्मानत्वात् // ... स्यादेतत्-अनुगतबुद्धिर्जातिविषया न व्यक्तिविषया, अनुगतप्रमात्वात्, घटानुगतप्रमावत् / अत एव जलभाजनादिप्रति. विम्बितचन्द्रानुगतबुडौ न व्यभिचारः। घटानुभवो न भवति पटानुभव इति स्वरूपतो भेदप्रतीतेः। देवदत्तो ऽनुभवति न न यज्ञदत्त इत्याद्याश्रयभेदप्रतीतेश्च / न चानुभदो न स्वसमान - अनुगत बुद्धेरनुगतधर्मविषयत्वनियमाद्वयक्तिभेदो वक्तव्य इति चोदयतिस्यादेतदिति / अनुगबुद्धौ पूर्वपक्षः __ साध्यान्तरभिप्रायेण व्यक्तिमात्रविषयत्वं निराकरोति-न व्यक्तिविषयेति / हेतुगतप्रमापदव्यावर्त्यमाह-अत एवेति / एकचन्द्रव्यक्तरेवानेकचन्द्रत्वेन प्रतीतेस्तदनुगतानुभवस्याप्रमात्वान्न तत्र व्यभिचार इत्यर्थः / घटानुगतबुद्धौ प्रामाणिकभेदवव्यक्तिविषयत्वमुपाधिरित्याशङ्कय साधनव्यापकत्वमाह-घटानुभव इति / सर्वानुभवस्यैकत्वे युगपदाश्रयभेदेन विधिनिषेधानुपपत्तिरित्यभिप्रेत्याह- देवदत्तो ऽनुभवतीति / प्रतिपक्षपराहतिमाशङ्कय निराकरोति-न चानुभव इति / घटतद्रपावृत्तिस्ववाचकाखण्डशब्दप्रवृत्तिनिमित्तवत्प्रतियोगिकस्वसमानसत्ताकतादात्म्यविरोधिभेदरहित इति साध्यार्थः / आकाशानुभवयोः स्ववाचकद्रव्यगुणशब्दप्रवृत्ति निमित्तद्रव्यत्वगुणत्ववद् घटतद्रपप्रतियोगिकतादात्म्य विरोधितद्धेदवत्त्वेन साध्यवैकल्य बाधपरिहाराय घटत पावृत्तीत्युक्तम् / कर्मशब्दप्रवृत्तिनिमित्तकर्मत्ववत्प्रतियोगिकभेदवत्वेनोक्तदोषपरिहारार्थ स्ववाचकेत्युक्तम् / एतदनुभवशब्दप्रवृत्तिनिमित्तैस्तदनुभवत्व वदेतत्प्रतियोगिक भेदाभास्यैतस्मिन्नन्यैरप्यङ्गीकारात्सिद्धसाधनतापरिहारायाखण्डपदम् / सिद्धान्ते ऽनुभवशब्दप्रवृत्तिनिमित्तानुभवत्वाधिकरणानुभवप्रतियोगिककल्पितभेदस्य पक्षेऽङ्गीकाराद्वाधपरिहारायोक्तधर्मवत्प्रतियोगिकता-द्रात्म्यविरोधीत्युक्तम् / स्वसिद्धान्ते ऽनुभवस्यानुभवान्तरतादात्म्यविरोधिभेदानङ्गीकारान्न वा बाधः / तर्हि परमते ऽप्यनुभवान्तर प्रतियोगिककल्पिततादात्म्यविरोधिभेदाभावात्सिद्धसाधनं स्यात्तन्निवृत्तये स्वसमानसत्ताकेत्युक्तम् / परमते ऽनुभवस्यानुभवत्व वदनुभवान्तरप्रतियोगिकसमानसत्तक्तादात्म्यविरोधितद्भेदवत्वाङ्गीकारान्न सिद्धसाधनमित्यर्थः / उपाधिपरामर्शमन्तरेण तद्भेदवत्वेनाप्रमीयमाणत्वादिति हेत्वर्थः। तथा च परमते कथमपि स्वप्रतियोगिकभेदस्याकाशे ऽभावेन साधन. वैकल्यशङ्का निरस्ता / परमते पक्षे ऽसिद्धिपरिहारार्थमुपाधिपरामर्शमन्तरेणेत्युक्तम् /