SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ पथमः परिच्छेदः नास्तीति शशीयत्वावच्छिन्नशृङ्गप्रतियोगिकाभावानुभवविरोधात् न ज्ञानं नष्टमित्यनुभवानुपपत्तिः / एवं तदुत्पत्यनुभवोऽपि॥ वृत्त्युपहितस्य ज्ञानशब्दार्थता ___अथवा वृत्तिशबलं चैतन्यं ज्ञानपदेनाखण्डशक्याऽभिधीयते जन्यस्य घटादिव्यवहारानुकूलस्य प्रमातृधर्मस्य ज्ञानपदात्प्रतीतेः। तत्र च ज्ञानं नष्टमुत्पन्नमित्याद्यनुभवो मुख्य एव / पदोथैकदेशनाशादिविषयस्याप्यनुभवस्य रूपं नष्टमित्यादेमुख्यत्वात् / एतेन स्फुरणोत्पादविनाशानुभवात्स्फुरणमुस्पद्यते विनश्यतीत्यपि नवीनोक्तं प्रत्युक्तम् / वृत्त्यतिरिक्तत्वेन स्फुरणावगमे तदनुभवस्य बाधितत्वात् / वृत्तावेव स्फुरणाभेदारोपेण स्फुरणं नष्टमित्या धनुभवात्। यस्मादुत्पत्तिविध्वंसविज्ञानं वृत्तिगोचरम् / तस्मादनुभवो ऽनादिनित्यो वेदान्तमानतः // __ यथा सस्यविशिष्टा भूरुर्वराशन्दवाच्या एवं वृत्तिशबलं चैतन्यं ज्ञानसमुदायशक्त्याऽभिधीयत इति मतान्तरमाह-अथवेति / वृत्तरप्यभिधेयत्वे हेतुमाह-जन्यस्येति / परमते रूपत्वविशिष्टरूपस्य रूप. शब्दवाच्यत्वे ऽपि यथा रूपं नष्टमित्याद्यनुभवस्तदेकदेशव्यक्तिविषयो मुख्य एवं एवं ज्ञानं नष्टमित्याद्यनुभवो * ज्ञानशब्दवाच्यैकदेशवृत्तिविनाशादिविषयोऽपि मुख्य एवास्मिन्मत इत्याह-तत्र च ज्ञानमिति / उत्पत्तिनाशानुभवस्य चैतन्योपाधिविषयत्वाभिधानादेव नवीनचोद्यमपि निरस्तमित्याह-एतेनेति / किञ्च किं वृत्तिभिन्नत्वेन स्फुरणावगमदशायां स्फुरणं नष्टमित्याद्यनुभव उत तदभेदावगमदशायाम् / आद्य व्यतिरिक्तस्फुरणस्य धर्मिग्राहकेण नित्यत्वेनैव सिद्धत्वात्तद्विरोधान्नाशाधनुभवो भ्रम इत्याह-वृत्त्यतिरिक्तत्वेनेति / द्वितीये वृत्तिमेव स्फुरणतयाऽवगत्य तन्नाशादिकमेवानुभूयत इत्याह-वृत्तावेवेति / अनुभवानित्यत्वे बाधकसद्भावाच्च तनि त्यत्वं सिद्धमित्युपसंहरति श्लोकेन- यस्मादिति / वृत्त्यतिरिक्तस्फुरणसाधकेन मानेन लाघवानुगृहीतेन सिद्धमप्यनुभवैकत्वं परोक्तदोषनिरासेन द्रढयितुमाह-स चेति / उत्पत्त्याद्यनुभववफ़ेदानुभवो ऽपि वृत्तिविषय इत्याह-भेद इति / प्रत्यक्षस्वकीया. नुभवेषु अनुमितपरकीयानुभवेषु चानुभवोऽनुभव इत्येकाकारबुद्धेरेक एवानुभवो विषय इति तदैक्यसिद्धिरित्याह-अभेदे चेति /
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy