________________ तरवोऽपि नमन्ति भवन्त्यधोमुखाः कण्टकाश्च तदा / / 33 / / आरक्तपल्लवोऽशोकपादपः स्मेरकुसुमगन्धाढ्यः / प्रकृतस्तुतिरिव मधुकर - विरुतैविलसत्युपरि तस्य / / 34 / / षडपि समकालमृतवो भगवन्तं तं तदोपतिष्ठन्ते / स्मरसाहाय्यककरणे प्रायश्चितं ग्रहीतुमिव / / 35 / / अस्य पुरस्तानिनदन् विजृम्भते दुन्दुभिर्नभसि तारम् / कुर्वाणो निर्वाणप्रयाणकल्याणमिव सद्यः / / 36 / / पञ्चापि चेन्द्रियार्थाः क्षणान्मनोज्ञीभवन्ति तदुपान्ते / को वा न गुणोत्कर्ष सविधे महतामवाप्नोति / / 37 / / अस्य नखा रोमाणि च वर्धिष्णून्यपि न हि प्रवर्धन्ते / भवशतसंचितकर्मच्छेदं दृष्ट्वेव भीतानि / / 38 / / शमयन्ति तदभ्यणे रजांसि गन्धजलवृष्टिभिर्देवाः / उनिद्रिकुसमवृष्टिभिरशेषत: सुरभयन्ति भुवम् / / 39 / / छत्रत्रयी पवित्रा विभोरुपरि भक्तितस्त्रिदशराजैः / गङ्गाश्रोतस्तितयीव धार्यते मण्डलीकृत्य / / 40 / / अयमेक एव नः प्रभुरित्याख्यातुं बिडौजसोन्नमितः / अङ्गलिदण्ड इवोच्चैश्चकास्ति रत्नध्वजस्तस्य / / 41 / / अस्यशरदिन्दुदीधितिचारुणि च चामराणि धूयन्ते / वदनारबिन्दसंपातिराजहंसभ्रमं दधति / / 42 / / प्राकारास्वय उच्चैविभान्ति समवसरणस्थितस्यास्य / कृतविग्रहाणि सम्यक् चारित्रज्ञानदर्शनानीव / / 43 / / चतुराशावर्तिजनान युगपदिवानुग्रहीतुकामस्य / चत्वारि भवन्ति मुख्यान्यङ्गानि च धर्ममुपदिशतः / / 44 / / अभिवन्द्यमानपादः सुरासुरनरोगौस्तदा भगवान् / सिंहारमा प्रतिष्ठति भारयानि पूर्वगिरिश्रृङ्गम् / / 45 / / तेज:पुजा : रस्य तदा / त्रैलोक्यचक्रवति भवति चक्रम् / / 46 / / भुवनपतिविमानपतिज्योति:पतिवानमन्तराः सविधे / तिष्ठन्ति समवसरणे जघन्यत: कोटिपरिमाणाः / / 47 / / स्पष्टाः / / 24-47 / / तीर्थकरकेलिनोतिशयस्वरूपमुक्तम् / 214 અરિહંતના અતિશયો