________________ પરિશિષ્ટ-૫ કલિકાલસર્વજ્ઞ શ્રી હેમચંદ્રાચાર્ય વિરચિત યોગશાસ્ત્ર (स्वो५२ टी सहित) યોગશાસ્ત્ર (अतिशयो) अथोत्पत्रकेवलज्ञानस्य तीर्थकृतोऽतिशयान् चतुर्विंशत्याऽऽभिराह देवस्तदा स भगवान् सर्वज्ञः सर्वदयनन्तगुणः / विहरत्यवनीवलयं सुरासुरनरोरगैः प्रणतः / / 24 / / वाग्ज्योत्स्नयाखिलान्यपि विबोधयति भव्यजन्तुकुमुदानि, उन्मूलयति क्षणतो मिथ्यात्वं द्रव्यभावगतम् / / 25 / / तत्रामग्रहमात्रादनादिसंसारसंभवं दुःखम् / भव्यात्मनामशेषं परिक्षयं याति सहसैव / / 26 / / अपि कोटिशतसंख्याः समुपासितुमागताः सुरनराद्याः / क्षेत्रे योजनमात्रे मान्ति तदाऽस्य प्रभावेण / / 27 / / त्रिदिवौकसो मनुष्यास्तिर्यञ्चोऽन्येऽप्यमुष्य बुध्यन्ते / निजनिजभाषानुगतं वचनं धर्मावबोधकरम् / / 28 / / आयोजनशतमुग्रा रोगाः शान्ति तत्प्रभावेण / उदयिनि शीतमरीचाविव तापरूज: क्षितेः परितः / / 29 / / मारीतिदुर्भिक्षातिवृष्ट्यनावृष्टिडमरवैराणि / न भवन्त्यस्मिन् विहरति सहस्ररश्मी तमांसीव / / 30 / / मार्तण्डमण्डलश्रीविडिम्बि भामंडलं विभोः परितः / आविर्भवत्यनुवपुः प्रकाशयत्सर्वतोऽपि दिश: / / 31 / / संचारयन्ति विकचान्यननुपादन्यासमाशु कमलानि / भगवति विहरति तस्मिन् कल्याणीभनायो दवाः / / 32 / / अनुकूलो वाति मरुत् प्रदक्षिणं यान्त्यमुष्य शकुनाश्च / 1. પ્રકાશ-૧૧, આર્યા 24 47 મૃલપાઠ અનુવાદ સહિત અહીં આપેલ છે. આ વર્ણન આર્યાવૃંદમાં હોવાથી બહુ જ ભાવવાહી અને ગેય છે. અરિહંતના અતિશયો 293