________________ अथ पुनरेवं जानीयाद्यथाऽतिक्रान्तो हेमन्तः, प्रतिपन्नश्च ग्रीष्मः, तदा परिजीर्णानि परिष्ठापयेद्वस्त्राणि, यद्वा सान्तरं प्रावरणं कुर्यात्। यद्वा द्विकल्पधारी भवेदेकत्यागेन। ततोऽप्यपगते शीत एकशाटकोऽचेलस्ततोऽपि।मुखवस्त्रिकारजोहरणमात्रोपधिरित्यर्थः। एवं हि लाघवं तपश्च। समत्वं समभिजानीयात् सचेलाचेलावस्थयोः। स्त्र्यादिपरीषहासहिष्णोरुद्बन्धनादिना मरणमपि हितं सुखं युक्तं निःश्रेयसमानुगमिकं च।