________________ अकल्प्यत्यागः // 1-8-2 // स्मशानादौ स्थानादिप्रतिपन्नस्य भिक्षोर्यदि कश्चिद् गृही ब्रूयाद्यथा तवार्थमहमशनाद्यारम्भं करोमि, तत्त्वं गृहाण, तदा स प्रतिषेध्यो भिक्षुणा, यथा विरतोऽहमेतस्मात्पापात्। भिक्ष्वर्थं कृतं चाशनादिकमुपलभ्य स्वसन्मत्यादिभिः कथयेद्यथा नैतद् ग्रहीतुं कल्पते ममेति। कदाचिदसौ कुपिततया परीषहानुदीरयेत्तानधिसहेत भिक्षुः। पुरुषं वा पर्यालोच्याचारं प्ररूपयेन्निजम्। यद्वा वाग्गुप्तस्सन् प्रत्युपेक्षेतोद्गमादिशुद्धिम्।