________________ विमोहः कुशीलपरिहारः / / 1-8-1 // न कुशीलेभ्यो वस्त्रादिकं दद्यात्, नापि तद्वैयावृत्यं कुर्यात्। नापि तत् तेषां स्वीकुर्यात्, संस्तवं वा तैः कुर्यादपि त्वनादरवान् भवेत्। एवमेव हि दर्शनशुद्धिरिति। यतो हि हिंसाऽज्ञानकलुषिततया न तेषां स्वाख्यातो धर्मः। जिनोक्तस्तु धर्मः स्वाख्यातः सर्वज्ञत्वाजिनानाम्। परीक्षितश्चैष एव सिध्यति निष्पापतया।