________________ 142) जातिमरणमार्गम्। न यत्स्वरूपं शब्दास्तर्का मतिर्वाऽवगाहितुं समर्था इति। दीर्घत्वादिरहितत्वात्, कृष्णत्वादिशून्यत्वात्, कर्कशत्वादिविकलत्वात्, शरीरातीतत्वात्, निःसङ्गत्वात्, स्त्रीत्वाद्यकलङ्कितत्वाच्चोपपद्यतेऽस्य हृषीकाद्यगोचरत्वम्। ज्ञानदर्शनयुक्तोऽसौ, निरुपमोऽरूपी च। अवस्थाविशेषरहिततया वाच्यविशेषरहितोऽसौ। अपि च न शब्दादिरूपोऽप्यसौ।