________________ प्रत्युत्प्रेक्ष्य परदुःखोत्पादकं कर्म न कर्त्तव्यमिति परिज्ञोच्यते। एवञ्च कर्मोपशान्तिस्स्यात्। ममत्वबुद्धिं परिहरन परिहरति परिग्रहम् / ममकारविमुक्तो हि मुनिर्मोक्षमार्गद्रष्टा। ममकारो हि दुःखहेतुरिति परिज्ञाय मेधावी लोकं विदित्वा लोकसञ्ज्ञां च वान्त्वा संयमोद्योगं विदध्यात्। त्यक्तरत्यरतितयाऽविमनस्कत्वेन रागमुपयाति वीरः। सम्यक् सहतेऽसौ मनोज्ञेतरशब्दादिविषयान्। जुगुप्सतेऽसंयमजीविताऽऽनन्दम्। धुनाति संयमेन