________________ न कामार्थेच्छा कर्त्तव्या। कामव्याधिचिकित्सनं करिष्य इत्येवं मन्यमानः करोति हननादिकाः क्रियाः। अत एवं कर्तुः कारयितुश्च सङ्गेनालम्, बालत्वात्तयोः, नैतत्करणं वा कारणं वा कल्पतेऽनगारस्येति। निर्ममत्वम् // 1-2-6 // सुखार्थी षट्कायेष्वन्यतरस्यापि समारम्भं कुर्वन् दुःखमेव लभते। स्वकीयेन विविधप्रमादेनासौ व्रतभेदं विधत्ते। ततश्च भ्राम्यति संसारे। एवं प्रत्यक्षमीक्ष्यमाणां प्राणिपीडां