________________ (ase. AINA तीर्थकृदुपदेशेनान्यवचनश्रवणेन वा तदवगच्छति। यथा भवान्तरसङ्क्रान्तिभागस्ति मदात्मा। योऽमुष्या दिशोऽनुदिशश्च गतिप्रायोग्यकर्मोपादानादनुसञ्चरति, सर्वस्या दिशः सर्वस्याश्चानुदिशो य आगतोऽनुसञ्चरति सोऽहम्। यः प्रोक्तसङ्क्रान्त्यभिज्ञः स आत्मवादी लोकवादी कर्मवादी क्रियावादी च भवति, परमार्थतस्तत्तदात्मादितत्त्वं वदतीति। स एवाहं येन मयाऽस्य देहादेः