________________ श्रीवर्द्धमानं जिनवर्द्धमानं, सूरीन्द्रमेवं गुरुहेमचन्द्रम् / प्रणम्य नम्यं प्रचिनोमि रम्यं, त्रैलोक्यसारं प्रथमाङ्गसारम् / / शस्त्रपरिजा जीवास्तित्वम् // 1-1-1 // इह हि परमकारुणिकः श्रीसुधर्मस्वामी जम्बूस्वामिनमाह-श्रुतं मयाऽऽयुष्मन् ! तेन भगवतैवमाख्यातम्-न भवत्यवगम एकेषां प्राणिनामिह संसारे, यथा पूर्वादितः कस्या दिशोऽहमागतोऽस्मि। स्वमत्या