________________ विमुक्तिः // 2-16 // विज्ञोऽगारबन्धनमारम्भपरिग्रहौ च त्यजेत्, अनित्यत्वान्मानुष्यादेः। उपसर्गेषु स्मर्त्तव्यः सङ्ग्रामगतः कुञ्जरः। जनहीलनादौज्ञानी गिरिवन्निष्प्रकम्पोऽदुष्टचेतसा तितिक्षते, ज्ञानित्वादेव, निश्चयेन ज्ञानतितिक्षयोरनतिरिक्तत्वाच्च। माध्यस्थ्यमवलम्बमानो गीतार्थैः संवसेत्। अप्रियदुःखान् त्रसादिजीवानपरितापयन् सर्वंसहश्च महामुनिः, 157