________________ प्राकृतप्रतिक्रमणादि च। तदभावनापञ्चकं मनोज्ञेतरेषु शब्दादिपञ्चसु रागद्वेषपरिहारेण नेयम्। न स्वेन्द्रियविषयप्राप्तशब्दाद्यवेदनं शक्यम्, रागद्वेषौ तु तत्र परिहरेत् भिक्षुरिति। एतावतेत्यादि प्रोक्तवत्। इत्येतैः पञ्चमहाव्रतैः पञ्चविंशत्या च भावनाभिः सम्पन्नोऽनगारो यथाश्रुतं यथाकल्पं यथामार्गं सम्यक् कायेन स्पृष्ट्वा पालयित्वा तीरयित्वा कीर्तयित्वाऽऽज्ञयाऽऽराधयिता च भवति।