________________ परक्रिया (षष्ठी सप्तिका) // 2-13 // आत्मनि क्रियमाणां कर्मसंश्लेषजननी परकायव्यापाररूपां क्रियां मनसा नाभिलषेत, नापि वाचा कायेन वा तां कारयेत्। कश्चिन्मुनेः पादौ कायं वाऽऽमृज्यात् प्रमृज्याद्वा, तत्सम्बाधनपरिमर्दन-स्पर्शम्रक्षणा-ऽभ्यङ्गनोद्वर्त्तनो-तक्षालन-प्रक्षालन-विलिम्पन-धूपनानि वा कुर्यात्, ततः कण्टकादिकमुद्धरेत्, शोणितादिकं वा निस्सारयेत्, शरीरस्थगण्डादेर्वाऽऽमर्ज