________________ अवग्रहप्रतिमा // 2-7-1 // प्रत्याख्यातादत्तादानो भिक्षुः कृतकारितानुमतिभिस्तत् त्यजेत्। न साधर्मिकाणामपि दण्डाद्यननुज्ञाप्य गृह्णीयात्, अप्रत्युपेक्ष्याप्रमृज्य च। आगन्त्रागारेष्वनुचिन्त्यावग्रहो याच्यः, यथा-कामं खल्वायुष्मन् ! यथाकालावधि यावत् क्षेत्रमनुज्ञातं यावदायुष्मतोऽवग्रहः, यावन्तःसाधर्मिका आयान्ति तावत्क्षेत्रमाश्रित्यैतावन्मात्रमवग्रहम