________________ कवचनं वदे यावत् परोक्षवचनं वदिष्यामीति विवक्षया परोक्षवचनं वदेत्। जानीयाच्चत्वारि भाषाजातानि (1) सत्यम् (2) असत्यम् (3) सत्यमृषा (4) असत्यामृषा। एतानि भाषाद्रव्याण्यचित्तानि वर्णादिवन्ति चयोपचयिकानि विपरिणामधर्माणि भवन्तीत्याख्यातानि तीर्थकृभिः। पूर्वं भाषाऽभाषा। भाष्यमाणैव भाषा। भाषासमयव्यतिक्रान्ता चाभाषा। चत्वार्यपि भाषाजातानि सावधसक्रियपरुषत्वादिकलङ्कितानि न वाच्यानि।