________________ मृगादित्रासप्रसक्तः।नाचार्यादिकैः सार्धं व्रजन् तद्धस्तादिस्पर्श कुर्यात्। न पथिकप्रश्नमुत्तरयत आचार्यादेरन्तर्भाषणं कुर्यात्। यथारत्नाधिकं व्रजेत्। यदि प्रातिपथिका मनुष्यबलीवर्दादिका दृष्टा न वेति प्रश्नं कुर्युस्तदा तूष्णीक उपेक्षेत। जानन्नपि नैव जानामीति वदेत्। एवं कन्दादिप्रश्नेष्वपि द्रष्टव्यम्। बलीवर्दादिकं दृष्ट्वा न भीत उन्मार्गेण गच्छेत्, न गहनादिकं जलं वा प्रविशेत्, नापि वृक्षमारोहयेत्, नापि वाटकादिकं